This page has not been fully proofread.

―v. 10.³]
 

 
पचमोऽङ्कः ।
 
३५७
 
सीता - हं मूढो खुसि रावणओ, जो मन्दरं हत्थेण तुळयिदुकामो ।
[ हं मूढः खल्वसि रावणकः, यो मन्दरं हस्तेन तुलयितुकामः । ]
( प्रविश्य )
 
राक्षसः - जयतु महाराजः ।
 
एते तयोर्मानुषयोः शिरसी राजपुत्रयोः ।
 
युधि हत्वा कुमारेण गृहीते त्वत्प्रियार्थिना ॥ ८ ॥
रावणः - सीते ! पश्य पश्य तयोर्मानुषयोः शिरसी ।
सीता - हा अय्यउत्त ! । ( इति मूर्च्छिता पतति । ) [ हा आर्यपुत्र ! । ]
 
३ रावणः-
 
सीते ! भावं परित्यज्य मानुषेऽस्मिन् गतायुषि ।
 
अद्यैव त्वं विशालाक्षि ! महतीं श्रियमाप्नुहि ॥ ९ ॥
 
सीता - ( प्रत्यभिज्ञाय ) हा अय्यउत्त ! परिमळणवकमळस णिहे
वदणे परिवृत्तणअणे पेक्खन्ती अदिधीरा खु म्हि मन्दभाआ । हा
३ अय्यउत्त ! एस्सि दुःखसाअरे मं णिक्खिविअ कहिं गो सि ।
जाव ण मरामि । किंणुखु अळिअं एदं भवे । भद्द ! जेण असणा
अय्यउत्तस्स असदिसं किदं, तेण मं वि मारेहि । हा आर्यपुत्र !
६ परिमलनवकमलसन्निभे वदने परिवृत्तनयने पश्यन्ती अतिधीरा खल्वस्मि
मन्दभागा । हा आर्यपुत्र ! एतस्मिन् दुःखसागरे मां निक्षिप्य कुत्र
गतोऽसि । यावन्न म्रिये । किन्नुखल्वलीकमेतद् भवेत् । भद्र ! येना-
९ सिनार्यपुत्रस्यासदृशं कृतं तेन मामपि मारय । ]
 
रावणः-
 
व्यक्तमिन्द्रजिता युद्धे हते तस्मिन् नराधमे ।
 
लक्ष्मणेन सह भ्रात्रा केन त्वं मोक्षयिष्यसे ॥ १० ॥
(नेपथ्ये )
 
रामेण रामेण ।
 
३७