This page has been fully proofread once and needs a second look.

३५६

अभिषेक नाटके

[ v. 3. 14_

<page>

पुत्रस्यागमनेन प्र<error>ल्हा</error><fix>ह्ला</fix>दितस्य हृदयस्याद्यावेग इव संवृत्तः । अनिष्टानि
१५

निमित्तानि च दृश्यन्ते । एवमपीदानीनीं हृदयस्य महानभ्युदयो वर्धते ।

सर्वथेश्वराः शान्तिं कुर्वन्तु । ]

१८ रावणः - मा तावद्,

<stage>
( त</stage><stage><error>त</error></stage><stage><fix>तः</fix></stage><stage> प्रविशति रावणः । )

</stage>

<speaker>रावणः -</speaker> मा तावद्,

<verse>
एषा विहाय भवनं मम सम्प्रयाता

नारी नवामलजलोद्भव लग्नहस्ता ।

लङ्का यदा हि समरे वशमागता मे

पौलस्त्यमाशु परिजित्य तदा गृहीता ॥ ४ ॥

</verse>

भवति ! तिष्ठ तिष्ठ । न खलु न खलु गन्तव्यम् । किं ब्रवीषि -

उत्सृज्य त्वां राममुपगच्छामीति । आः अपध्वंस ।

<verse>
बलादेव गृहीतासि तदा वैश्रवणालये ।

बलादेव ग्रहीष्ये त्वां हत्वा राघवमाहवे ॥ ५ ॥

</verse>

किमनया । यावदहमपि सीतां विलोभयिष्ये । <stage>( मदनावेशं निरूप्य )
</stage>
अहोतुखल्वतुलबलता कुसुमधन्वनः । कुतः,

<verse>
निद्रां मे निशि विस्मरन्ति नयनान्यालोक्य सीताननं

तत्संश्लेषसुखार्थिनी तनुतरा याता तनुः पाण्डुताम् ।

सन्तापं रमणीयवस्तुविषये बध्नाति पुष्पेषुणा

( उपेत्य )

कष्टं निर्जित विष्टपत्रयभुजो निर्जीयते रावणः ॥ ६ ॥

</verse>

<stage>( उपेत्य )</stage>

<verse>
सीते! त्यजत्वमरविन्दपलाशनेत्रे !

चित्तं हि मानुषगतं मम चित्तनाथे ! ।

शस्त्रेण मेऽद्य समरे विनिपात्यमानं

प्रेक्षस्व लक्ष्मणयुतं तव चित्तकान्तम् ॥ ७ ॥
३६

</verse>
</page>