2025-12-29 10:00:38 by ambuda-bot
This page has not been fully proofread.
३५६
अभिषेक नाटके
[ v. 3. 14_
पुत्रस्यागमनेन प्रल्हादितस्य हृदयस्याद्यावेग इव संवृत्तः । अनिष्टानि
१५ निमित्तानि च दृश्यन्ते । एवमपीदानी हृदयस्य महानभ्युदयो वर्धते ।
सर्वथेश्वराः शान्तिं कुर्वन्तु । ]
१८ रावणः - मा तावद्,
( तत प्रविशति रावणः । )
एषा विहाय भवनं मम सम्प्रयाता
नारी नवामलजलोद्भव लग्नहस्ता ।
लङ्का यदा हि समरे वशमागता मे
पौलस्त्यमाशु परिजित्य तदा गृहीता ॥ ४ ॥
भवति ! तिष्ठ तिष्ठ । न खलु न खलु गन्तव्यम् । किं ब्रवीषि -
उत्सृज्य त्वां राममुपगच्छामीति । आः अपध्वंस ।
बलादेव गृहीतासि तदा वैश्रवणालये ।
बलादेव ग्रहीष्ये त्वां हत्वा राघवमाहवे ॥ ५ ॥
किमनया । यावदहमपि सीतां विलोभयिष्ये । ( मदनावेशं निरूप्य )
अहोतुखल्वतुलबलता कुसुमधन्वनः । कुतः,
निद्रां मे निशि विस्मरन्ति नयनान्यालोक्य सीताननं
तत्संश्लेषसुखार्थिनी तनुतरा याता तनुः पाण्डुताम् ।
सन्तापं रमणीयवस्तुविषये बध्नाति पुष्पेषुणा
( उपेत्य )
कष्टं निर्जित विष्टपत्रयभुजो निर्जीयते रावणः ॥ ६ ॥
सीते! त्यजत्वमरविन्दपलाशनेत्रे !
चित्तं हि मानुषगतं मम चित्तनाथे ! ।
शस्त्रेण मेऽद्य समरे विनिपात्यमानं
प्रेक्षस्व लक्ष्मणयुतं तव चित्तकान्तम् ॥ ७ ॥
३६