This page has been fully proofread once and needs a second look.

—v. 3.13 ]

पचमोऽङ्कः ।

३५५

<page>

<speaker>
काम्ञ्चुकीयः -</speaker> अहोतुखलु विपद्यमानाभ्युदये राक्षसकुले विपन्नसर्व-

साधनस्य निहतवीरपुरुषस्य स्वयं च प्राणसंशयं प्राप्तस्येदानीमपि

प्रसन्नत्वं नोपगच्छति महाराजस्य बुद्धिः । को हि नाम,

<verse>
चलत्तरङ्गाहतभीमवेलमुदीर्णनक्राकुलनीलनीरम् ।

समुद्रमाक्रान्तमवेक्ष्य तस्मै दारप्रदानान्न करोति शान्तिम् ॥ १ ॥

</verse>

अपि<error>,</error>

<verse>
प्रहस्तप्रमुखा वीराः कुम्भकर्णपुरस्सराः ।

निहता राघवेणाद्य शक्रजिच्चापि निर्गतः ॥ २॥

</verse>

एवमपि गते,

<verse>
मदनवशगतो महानयार्थं सचिववचोऽप्यनवेक्ष्य वीरमानी ।

रघुकुलवृषभस्य तस्य देवीं जनकसुतां न ददाति योद्धुकामः ॥ ३ ॥
</verse>

<stage>
( प्रविश्य )

</stage>

<speaker>
विद्युजिह्नःवः -</speaker> अपि सुखमार्यस्य ।

<speaker>
काञ्चुकीयः -</speaker> विद्युज्जिह् ! गच्छ, महाराजवचनाद् रामलक्ष्मणयोः

शिरः प्रतिकृतिरानीयताम् ।

<speaker>
विधुद्युजिह्न:वः -</speaker> यदाज्ञापयति महाराज: । <stage>(निष्क्रान्तः । )

</stage>

<speaker>
काञ्चुकीयः-</speaker> यावदहमपि

महाराजस्य

( निष्क्रान्तः । )

प्रत्यन्तरीभविष्यामि ।

<stage>( निष्क्रान्तः । )</stage>

<trailer>
विष्कम्भकः ।

</trailer>

<stage>
( तत: प्रविशति राक्षसीगणपरिवृता सीता )

</stage>

<speaker>
सीता -</speaker> किष्ण्णुहु अय्यउत्तस्स आगमणेण पहळादिअस्स हिअअस्स

अज्ज आवेओ विअ संवृत्तो । अणिट्टाठाणि निमित्ताणि अ
१२

दिस्सन्ति । एवं वि दाणि <stage>( अच्चाहिअं ?)</stage> हिअअस्स महन्तो

अब्भुदओ वड्ढइ । सव्वहा इस्सरा सन्तितिं करन्तु । [ किन्नु खल्वार्थ-

<ignore>
३५

</ignore>
</page>