This page has not been fully proofread.

३५४
 
अभिषेक नाटके
 
रामः-अभिधीयतां मद्वचनात् स राक्षसेन्द्रः ।
 
इति ।
 
मम दारापहारण स्वयाहितविग्रहः ।
 
[ iv. 21.-
 
आगतोऽहं न पश्यामि द्रष्टुकामो रणातिथिः ॥ २२ ॥
 
उभौ - यदाज्ञापयति देवः । (निष्क्रान्तौ । )
 
३ रामः - विभीषण ! वयमपि तावदानन्तरीयं बलं परीक्षिष्यामहे ।
विभीषणः - यदाज्ञापयति देवः ।
 
राम:-
 
- ( परिक्रम्य विलोक्य) अये अस्तमितो भगवान् दिवाकरः ।
 
६ सम्प्रति हि,
 
अस्ताद्रिमस्तकगतः प्रतिसंहृतांशुः
 
सन्ध्यानुरञ्जितवपुः प्रतिभाति सूर्यः ।
रक्तोज्ज्वलांशुकवृते द्विरदस्य कुम्भे
 
जाम्बूनदेन रचितः पुलको यथैव ॥ २३ ॥
 
(निष्क्रान्ताः सर्वे । )
 
चतुर्थोऽङ्कः ।
 
अथ पञ्चमोऽङ्कः ।
 
(ततः प्रविशति राक्षसकाञ्चुकीयः )
 
३ राक्षसकाञ्चुकीयः- क इह भोः ! प्रवालतोरणद्वारमशून्यं कुरुते ।
 
( प्रविश्यान्यो राक्षसः )
 
राक्षसः - आर्य ! अयमस्मि । किं क्रियताम् ।
 
६ काञ्चुकीयः- गच्छ, महाराजस्य शासनाद् विद्युज्जिह्नस्तावदा-
 
हूयताम् ।
 
तः - आर्य ! तथा । (निष्क्रान्तः । )
 
राक्षसः-
 
३४