This page has been fully proofread once and needs a second look.

<page>
<ignore>
-iv. 21.6]

चतुर्थोऽङ्कः ।

</ignore>
<ignore>
३५३

</ignore>

<speaker>
उभौ -</speaker> भट्टा ! अम्हे अय्यकुमुदस्स सेवआ <chaya>[ भर्तः ! आवामार्य-
१५

कुमुदस्य सेवकौ । ]

</chaya>

<speaker>
वानराः-</speaker> भट्टा ! अय्यकुमुदस्स सेवअत्ति अत्ताणं अवदिसन्ति ।

<chaya>
[ भर्तः ! आर्यकुमुदस्य सेवकावित्यात्मानमपदिशतः । ]
१८
</chaya>
<speaker>
विभीषण: - </speaker> <stage>( सावधानं शुकसारणौ विलोक्य )

</stage>

<verse>
स्वसैनिकौ न चाप्येतौ न चाप्येतौ वनौकसौ ।

प्रेषितौ रावणेनैतौ राक्षसौ शुकसारणौ ॥ १९ ॥

</verse>

<speaker>
उभौ - </speaker> <stage>( आत्मगतम् )</stage> हन्त कुमारेण विज्ञातौ स्वः । <stage>( प्रकाशम् )
</stage>
आर्य ! आवां खलु राक्षसराजस्य विप्रतिपत्त्या विपद्यमानं राक्षस-

कुलं दृष्टाट्वास्पदमलभमानौ आर्यसंश्रयार्थं वानररूपेण सम्प्राप्तौ ।

<speaker>
रामः -</speaker> वयस्य ! विभीषण ! कथमिव भवान् मन्यते ।

<speaker>
विभीषणः -</speaker> देव !

<verse>
एतौ हि राक्षसेन्द्रस्य सम्मतौ मन्त्रिणौ नृप ! ।

प्राणान्तिकेऽपि व्यसने लङ्केशं नैव मुञ्चतः ॥ २० ॥

</verse>

तस्माद् यथार्हं दण्डमाज्ञापयतु देवः ।

<speaker>
रामः-</speaker>विभीषण ! मा मैवम् ।

<verse>
अनयोः शासनादेव न मे वृद्धिर्भविष्यति ।

क्षयो वा राक्षसेन्द्रस्य तस्मादेतौ विमोचय ॥ २१ ॥

</verse>

<speaker>
लक्ष्मण: -</speaker> यदि विमुञ्चेत्, सर्वस्कन्धावारं प्रविश्य परीक्ष्य पुनर्मो-

क्षमाज्ञापयत्वार्यः ।

<speaker>
रामः -</speaker> सम्यगभिहितं लक्ष्मणेन । नील ! एवं क्रियताम् ।

<speaker>
नील:-</speaker> यदाज्ञापयति देवः ।

<speaker>
रामः -</speaker> अथवा एहि तावत् ।

<speaker>
उभौ -</speaker> इमौ स्वः ।

३३

</page>