2025-12-29 10:00:37 by ambuda-bot
This page has not been fully proofread.
-iv. 21.6]
चतुर्थोऽङ्कः ।
३५३
उभौ - भट्टा ! अम्हे अय्यकुमुदस्स सेवआ [ भर्तः ! आवामार्य-
१५ कुमुदस्य सेवकौ । ]
वानराः- भट्टा ! अय्यकुमुदस्स सेवअत्ति अत्ताणं अवदिसन्ति ।
[ भर्तः ! आर्यकुमुदस्य सेवकावित्यात्मानमपदिशतः । ]
१८ विभीषण: - ( सावधानं शुकसारणौ विलोक्य )
स्वसैनिक न चाप्येतौ न चाप्येतौ वनौकसौ ।
प्रेषितौ रावणेनैतौ राक्षसौ शुकसारणौ ॥ १९ ॥
उभौ - ( आत्मगतम् ) हन्त कुमारेण विज्ञातौ स्वः । ( प्रकाशम् )
आर्य ! आवां खलु राक्षसराजस्य विप्रतिपत्त्या विपद्यमानं राक्षस-
३ कुलं दृष्टास्पदमलभमानौ आर्यसंश्रयार्थं वानररूपेण सम्प्राप्तौ ।
रामः - वयस्य ! विभीषण ! कथमिव भवान् मन्यते ।
विभीषणः - देव !
एतौ हि राक्षसेन्द्रस्य सम्मतौ मन्त्रिणौ नृप ! ।
प्राणान्तिकेऽपि व्यसने लङ्केशं नैव मुञ्चतः ॥ २० ॥
तस्माद् यथार्हं दण्डमाज्ञापयतु देवः ।
रामः-विभीषण ! मा मैवम् ।
अनयोः शासनादेव न मे वृद्धिर्भविष्यति ।
क्षयो वा राक्षसेन्द्रस्य तस्मादेतौ विमोचय ॥ २१ ॥
लक्ष्मण: - यदि विमुचेत्, सर्वस्कन्धावारं प्रविश्य परीक्ष्य पुनर्मो-
क्षमाज्ञापयत्वार्यः ।
३ रामः - सम्यगभिहितं लक्ष्मणेन । नील ! एवं क्रियताम् ।
नील:- यदाज्ञापयति देवः ।
रामः - अथवा एहि तावत् ।
६ उभौ - इमौ स्वः ।
३३