This page has been fully proofread once and needs a second look.

<page>
<ignore>
३५२

अभिषेक नाटके

</ignore>
<ignore>
[iv. 16.

१२
</ignore>

महाराज सुग्रीव ! सखे हनूमन् ! पश्यन्तु पश्यन्तु भवन्तः ।

अहो विचित्रता सागरस्य । इह हि,

<verse>क्व
चित् फेनोद्वागारी क्वचिदपि च मीनाकुलजल:

क्वचिच्छङ्खाकीर्णः क्वचिदपि च नीलाम्बुदनिभः ।

क्व
चिद् वीचीमाल :लः क्वचिदपि च नक्रप्रतिभयः

क्वचिद् भीमावर्तः क्वचिदपि च निष्कम्पसलिलः ॥ १७ ॥
</verse>

भगवत्प्रसादादतीतः सागरः ।

<speaker>
हनूमान् -</speaker> देव ! इयमियं लङ्का ।

<speaker>
रामः - </speaker> <stage>( चिरं विलोक्य)</stage> अहो राक्षसनगरस्य श्रीरचिराद्

विपत्स्यते ।

<verse>
मम शरवरवातपातभग्ना कपिवरसैन्यतरङ्गताडितान्ता ।

उदधिजलगतेव नौर्विपन्ना निपतति रावणकर्णधारदोषात् ॥ १८ ॥
</verse>

सुग्रीव ! अस्मिन् सुवेलपर्वते क्रियतां सेनानिवेशः । <stage>( उपविशति ।)
</stage>

<speaker>
सुग्रीवः -</speaker> यदाज्ञापयति देवः । नील ! एवं क्रियताम् ।

<stage>
( प्रविश्य )

</stage>

<speaker>
नील: -</speaker> यदाज्ञापयति महाराज: । <stage>(निष्क्रम्य प्रविश्य )</stage> जयतु देवः ।

क्रमान्निवेश्यमानासु सेनासु वृन्दपरिग्रहेषु परीक्ष्यमाणेषु पुस्तक-

प्रामाण्यात् कुतश्चिदप्यविज्ञायमानौ द्वौ वनौकसौ गृहीतौ । वयं न

जानीमः कर्तव्यम् । देवस्तस्मात् प्रमाणम् ।

सः

<speaker>रामः
-</speaker> शीघ्रं प्रवेशयत्वेतौ ।

रामः-

<speaker>
नील: -</speaker> यदाज्ञापयति देवः । <stage>(निष्क्रान्तः )

</stage>

<stage>
( तत: प्रविशति नीलो वानरैर्गृह्यमाणौ वानररूपधारिणौ

सम्पुटिका हस्तौ शुकसारणौ च । )

१२
</stage>

<speaker>
वानराः -</speaker>ङ्घो भणथ । तुम्हे भणथ । <chaya>[ अङ्घो भणतं कौ युवां

भणतम् । ]

३२

</chaya>

</page>