2025-12-29 10:00:37 by ambuda-bot
This page has not been fully proofread.
३५२
अभिषेक नाटके
[iv. 16.
१२ महाराज सुग्रीव ! सखे हनूमन् ! पश्यन्तु पश्यन्तु भवन्तः ।
अहो विचित्रता सागरस्य । इह हि,
कचित् फेनोद्वारी कचिदपि च मीनाकुलजल:
क्वचिच्छखाकीर्णः क्वचिदपि च नीलाम्बुदनिभः ।
कचिद् वीचीमाल : क्वचिदपि च नक्रप्रतिभयः
क्वचिद् भीमावर्तः क्वचिदपि च निष्कम्पसलिलः ॥ १७ ॥
भगवत्प्रसादादतीतः सागरः ।
हनूमान् - देव ! इयमियं लङ्का ।
३ रामः - ( चिरं विलोक्य) अहो राक्षसनगरस्य श्रीरचिराद्
विपत्स्यते ।
३
मम शरवरवातपातभग्ना कपिवरसैन्यतरङ्गताडितान्ता ।
उदधिजलगतेव नौविपन्ना निपतति रावणकर्णधारदोषात् ॥ १८ ॥
सुग्रीव ! अस्मिन् सुवेलपर्वते क्रियतां सेनानिवेशः । ( उपविशति ।)
सुग्रीवः - यदाज्ञापयति देवः । नील ! एवं क्रियताम् ।
( प्रविश्य )
नील: - यदाज्ञापयति महाराज: । (निष्क्रम्य प्रविश्य ) जयतु देवः ।
क्रमान्निवेश्यमानासु सेनासु वृन्दपरिग्रहेषु परीक्ष्यमाणेषु पुस्तक-
६ प्रामाण्यात् कुतश्चिदप्यविज्ञायमानौ द्वौ वनौकसौ गृहीतौ । वयं न
जानीमः कर्तव्यम् । देवस्तस्मात् प्रमाणम् ।
सः - शीघ्रं प्रवेशयत्वेतौ ।
रामः-
९ नील: - यदाज्ञापयति देवः । (निष्क्रान्तः )
( तत: प्रविशति नीलो वानरैर्गृह्यमाणौ वानररूपधारिणौ
सम्पुटिका हस्तौ शुकसारणौ च । )
१२ वानराः - अघो भणथ । तुम्हे भणथ । [ अघो भणतं कौ युवां
भणतम् । ]
३२