2025-12-29 10:00:37 by ambuda-bot
This page has not been fully proofread.
-iv. 16.1]
चतुर्थोऽङ्कः ।
मानुषं रूपमास्थाय चक्रशार्ङ्गगदाधरः ।
स्वयं कारणभूतः सन् कार्यार्थी समुपागतः ॥ १४ ॥
नमो भगवते त्रैलोक्यकारणाय नारायणाय ।
लक्ष्मण: - ( विलोक्य) अये कोनुखल्वेषः ।
मणिविरचितमौलिश्वारुताम्रायताक्षो
नवकुवलयनीलो मत्तमातङ्गलीलः ।
सलिलनिचयमध्यादुत्थितस्त्वेष शीघ्र-
मवनतमिव कुर्वस्तेजसा जीवलोकम् ॥ १५ ॥
विभीषणः - देव ! अयं खलु भगवान् वरुणः प्राप्तः ।
रामः - किं वरुणोऽयम् । भगवन् ! वरुण ! नमस्ते ।
३ वरुणः --न मे नमस्कारं कर्तुमर्हति देवेशः । अथवा,
राजपुत्र ! कुतः कोपो रोषेण किमलं तव ।
कर्तव्यं तावदस्माभिर्वद शीघ्रं नरोत्तम ! ॥ १६ ॥
राम: - लङ्कागमने मार्गं दातुमर्हति भवान् ।
वरुणः - एष मार्गः । प्रयातु भवान् । ( अन्तर्हितः । )
३५१
३ राम:-
:- कथमन्तर्हितो भगवान् वरुणः । विभीषण! पश्य पश्य
भगवत्प्रसादान्निष्कम्पवीचिमन्तं सलिलाधिपतिम् ।
विभीषणः-देव ! साम्प्रतं द्विधाभूत इव दृश्यते जलनिधिः ।
६ राम: - क हनूमान् ।
हनूमान् - जयतु देवः ।
:- हनूमन् ! गच्छाग्रतः ।
रामः-
९ हनूमान् - यदाज्ञापयति देवः ।
( सर्वे परिक्रामन्ति । )
रामः - ( विलोक्य सविस्मयम् ) वत्स लक्ष्मण ! वयस्य विभीषण !
३१