2026-01-30 06:23:25 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>३५०
अभिषेक नाटके
</ignore>
<ignore>[ iv. 10.-
६</ignore>

<speaker>विभीषण: -</speaker> बाढम् ।
लक्ष्मणः - जयत्वार्यः ।

<stage>( उपसर्पतः । )
९</stage>

<speaker>लक्ष्मणः -</speaker> जयत्वार्यः ।

<speaker>विभीषणः -</speaker> प्रसीदतु देवः । जयतु देवः ।

<speaker>राम: -</speaker> अये विभीषणः । विभीषण ! अपि कुशली भवान् ।

<speaker>विभीषणः -</speaker> देव ! अद्य कुशली संवृत्तोऽस्मि ।

<verse>भवन्तं पद्मपत्राक्षं शरण्यं शरणागतः ।
अद्यास्मि कुशली राजंस्त्वद्दर्शनविकल्मषः ॥ ११ ॥
</verse>

<speaker>रामः -</speaker> अद्यप्रभृति मद्वचनाल्लङ्केश्वरो भव ।

<speaker>विभीषणः -</speaker> अनुगृहीतोऽस्मि ।
३

<speaker>रामः -</speaker> विभीषण ! त्वदागमनादेव सिद्धमस्मत्कार्यम् । सागरतरणे
खलूपायो नाधिगम्यते ।

<speaker>विभीषणः-</speaker>देव ! किमत्रावगन्तव्यम् । यदि मार्गं न ददाति, समुद्रे
६
दिव्यमस्त्रं तावद् विस्रष्टुमर्हति देवः ।

<speaker>राम: -</speaker> साधु विभीषण! साधु । भवतु, एवं तावत् करिष्ये ।

<stage>(सहसोत्तिष्ठन् सरोषम् )
</stage>

<verse>मम शरपरिदग्धतोयपङ्कं हतशतमत्स्यविकर्णभूमिभागम् ।
यदि मम न ददाति मार्गमेनं प्रतिहतवीचिरवं करोमि शीघ्रम् ॥ १२ ॥
</verse>

<stage>( त</stage><stage><error>त</error></stage><stage><fix>तः</fix></stage><stage> प्रविशति वरुणः । )
</stage>

<speaker>वरुण:- </speaker> <stage>(ससम्भ्रमम्)
</stage>

<verse>नारायणस्य नररूपमुपाश्रितस्य
कार्यार्थमभ्युपगतस्य कृतापराधः ।
देवस्य देवरिपुदेहहरात् प्रतूर्णं
भीतः शराच्छरणमेनमुपाश्रयामि ॥ १३ ॥
</verse>

<stage>(विलोक्य)</stage> अये अयं भगवान्,

<ignore>३०
</ignore>
</page>
<ignore>३५०
अभिषेक नाटके
<ignore>[ iv. 10.-
६

<speaker>विभीषण: -</speaker> बाढम् ।
लक्ष्मणः - जयत्वार्यः ।

<stage>( उपसर्पतः । )
९

<speaker>लक्ष्मणः -</speaker> जयत्वार्यः ।

<speaker>विभीषणः -</speaker> प्रसीदतु देवः । जयतु देवः ।

<speaker>राम: -</speaker> अये विभीषणः । विभीषण ! अपि कुशली भवान् ।

<speaker>विभीषणः -</speaker> देव ! अद्य कुशली संवृत्तोऽस्मि ।
<verse>भवन्तं पद्मपत्राक्षं शरण्यं शरणागतः ।
अद्यास्मि कुशली राजंस्त्वद्दर्शनविकल्मषः ॥ ११ ॥

<speaker>रामः -</speaker> अद्यप्रभृति मद्वचनाल्लङ्केश्वरो भव ।

<speaker>विभीषणः -</speaker> अनुगृहीतोऽस्मि ।
३

<speaker>रामः -</speaker> विभीषण ! त्वदागमनादेव सिद्धमस्मत्कार्यम् । सागरतरणे
खलूपायो नाधिगम्यते ।

<speaker>विभीषणः-</speaker>देव ! किमत्रावगन्तव्यम् । यदि मार्गं न ददाति, समुद्रे
६
दिव्यमस्त्रं तावद् विस्रष्टुमर्हति देवः ।

<speaker>राम: -</speaker> साधु विभीषण! साधु । भवतु, एवं तावत् करिष्ये ।

<stage>(सहसोत्तिष्ठन् सरोषम् )
<verse>मम शरपरिदग्धतोयपङ्कं हतशतमत्स्यविकर्णभूमिभागम् ।
यदि मम न ददाति मार्गमेनं प्रतिहतवीचिरवं करोमि शीघ्रम् ॥ १२ ॥

<stage>( त</stage><stage><error>त</error></stage><stage><fix>तः</fix></stage><stage> प्रविशति वरुणः । )

<speaker>वरुण:-