This page has not been fully proofread.

३५०
 
अभिषेक नाटके
 
[ iv. 10.-
 
६ विभीषण: - बाढम् ।
 
लक्ष्मणः - जयत्वार्यः ।
 
( उपसर्पतः । )
 
९ विभीषणः - प्रसीदतु देवः । जयतु देवः ।
 
राम: - अये विभीषणः । विभीषण ! अपि कुशली भवान् ।
विभीषणः - देव ! अद्य कुशली संवृत्तोऽस्मि ।
 
भवन्तं पद्मपत्राक्षं शरण्यं शरणागतः ।
 
अद्यास्मि कुशली राजंस्त्वदर्शनविकल्मषः ॥ ११ ॥
 
रामः - अद्यप्रभृति मद्वचनालङ्केश्वरो भव ।
 
विभीषणः - अनुगृहीतोऽस्मि ।
 
३ रामः - विभीषण ! त्वदागमनादेव सिद्धमस्मत्कार्यम् । सागरतरणे
खलूपायो नाधिगम्यते ।
 
विभीषणः-देव ! किमत्रावगन्तव्यम् । यदि मार्गं न ददाति, समुद्रे
६ दिव्यमस्त्रं तावद् विस्रष्टुमर्हति देवः ।
 
राम: - साधु विभीषण! साधु । भवतु, एवं तावत् करिष्ये ।
(सहसोत्तिष्ठन् सरोषम् )
 
मम शरपरिदग्धतोयपङ्कं हतशतमत्स्यविकर्णभूमिभागम् ।
यदि मम न ददाति मार्गमेनं प्रतिहतवीचिरवं करोमि शीघ्रम् ॥ १२ ॥
( तत प्रविशति वरुणः । )
 
वरुण:- (ससम्भ्रमम्)
 
नारायणस्य नररूपमुपाश्रितस्य
कार्यार्थमभ्युपगतस्य कृतापराधः ।
देवस्य देवरिपुदेहहरात् प्रतूर्णं
 
भीतः शराच्छरणमेनमुपाश्रयामि ॥ १३ ॥
 
(विलोक्य) अये अयं भगवान्,
 
३०