2025-12-29 10:00:37 by ambuda-bot
This page has not been fully proofread.
३५०
अभिषेक नाटके
[ iv. 10.-
६ विभीषण: - बाढम् ।
लक्ष्मणः - जयत्वार्यः ।
( उपसर्पतः । )
९ विभीषणः - प्रसीदतु देवः । जयतु देवः ।
राम: - अये विभीषणः । विभीषण ! अपि कुशली भवान् ।
विभीषणः - देव ! अद्य कुशली संवृत्तोऽस्मि ।
भवन्तं पद्मपत्राक्षं शरण्यं शरणागतः ।
अद्यास्मि कुशली राजंस्त्वदर्शनविकल्मषः ॥ ११ ॥
रामः - अद्यप्रभृति मद्वचनालङ्केश्वरो भव ।
विभीषणः - अनुगृहीतोऽस्मि ।
३ रामः - विभीषण ! त्वदागमनादेव सिद्धमस्मत्कार्यम् । सागरतरणे
खलूपायो नाधिगम्यते ।
विभीषणः-देव ! किमत्रावगन्तव्यम् । यदि मार्गं न ददाति, समुद्रे
६ दिव्यमस्त्रं तावद् विस्रष्टुमर्हति देवः ।
राम: - साधु विभीषण! साधु । भवतु, एवं तावत् करिष्ये ।
(सहसोत्तिष्ठन् सरोषम् )
मम शरपरिदग्धतोयपङ्कं हतशतमत्स्यविकर्णभूमिभागम् ।
यदि मम न ददाति मार्गमेनं प्रतिहतवीचिरवं करोमि शीघ्रम् ॥ १२ ॥
( तत प्रविशति वरुणः । )
वरुण:- (ससम्भ्रमम्)
नारायणस्य नररूपमुपाश्रितस्य
कार्यार्थमभ्युपगतस्य कृतापराधः ।
देवस्य देवरिपुदेहहरात् प्रतूर्णं
भीतः शराच्छरणमेनमुपाश्रयामि ॥ १३ ॥
(विलोक्य) अये अयं भगवान्,
३०