2026-01-30 06:20:37 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>—iv. 10.'' ]
चतुर्थोऽङ्कः ।
</ignore>

अथवा,
३४९

<verse>दृष्टधर्मार्थतत्त्वोऽयं साधुः संश्रितवत्सलः ।
शङ्कनीयः कथं रामो विशुद्धमनसा मया ॥ ८ ॥
</verse>

<stage>( अधोऽवलोक्य)</stage> इदं रघुकुलवृषभस्य स्कन्धावारम् । यावदवत-
रामि । <stage>(अवतीर्य )</stage> हन्त इह स्थित्वा ममागमनं देवाय निवेदयामि ।
३

<speaker>हनूमान् - </speaker> <stage>( ऊर्ध्वमवलोक्य)</stage> अये कथं तत्रभवान् वि<error>मी</error><fix>भी</fix>षणः ।
<note>(see errata, which strangely has बिभीषणः)</note>

<speaker>विभीषण: -</speaker> अये हनूमान् । हनूमन् ! ममागमनं देवाय निवेदय ।

<speaker>हनूमान् -</speaker> बाढम् । <stage>( उपगम्य )</stage> जयतु जयतु देवः ।

<verse>राजंस्त्वत्कारणादेव भ्रात्रा निर्विषयीकृतः ।
विभीषणोऽयं धर्मात्मा शरणार्थमुपागतः ॥ ९
॥</verse>

<speaker>रामः -</speaker> कथं विभीषणः शरणागत इति । वत्स लक्ष्मण ! गच्छ,
सत्कृत्य प्रवेश्यतां विभीषणः ।
३

<speaker>लक्ष्मण: -</speaker> यदाज्ञापयत्यार्यः ।

<speaker>रामः -</speaker> सुप्ग्रीव वक्तुकाममिव त्वां लक्षये ।

<speaker>सुग्रीवः -</speaker>देव ! बहुमायाश्छलयोधिनश्च राक्षसाः । तस्मात् सम्प्र-
६
धार्य प्रवेश्यतां विभीषणः ।

<speaker>हनूमान -न् -</speaker> महाराज ! मा मैवं,

<verse>देवे यथा वयं भक्तास्तथा मन्ये विभीषणम् ।
भ्रात्रा विवदमानोऽपि दृष्टः पूर्वं पुरे मया ॥ १० ॥
</verse>

<speaker>राम: -</speaker> यद्येवं, गच्छ, सत्कृत्य प्रवेश्यतां विभीषणः ।

<speaker>लक्ष्मणः-</speaker> यदाज्ञापयत्यार्यः । <stage>( परिक्रम्य )</stage> अये विभीषणः । विभी-
३
षण ! अपि कुशली भवान् ।

<speaker>विभीषणः-</speaker> अये कुमारो लक्ष्मणः। कुमार ! अद्य कुशली संवृत्तोऽस्मि ।

<speaker>लक्ष्मणः-</speaker> विभीषण ! उपसर्पावस्तावदार्यम् ।

<ignore>२९
</ignore>
</page>
<ignore>—iv. 10.
चतुर्थोऽङ्कः ।

अथवा,
३४९
<verse>दृष्टधर्मार्थतत्त्वोऽयं साधुः संश्रितवत्सलः ।
शङ्कनीयः कथं रामो विशुद्धमनसा मया ॥ ८ ॥

<stage>( अधोऽवलोक्य)</stage> इदं रघुकुलवृषभस्य स्कन्धावारम् । यावदवत-
रामि । <stage>(अवतीर्य )</stage> हन्त इह स्थित्वा ममागमनं देवाय निवेदयामि ।
३

<speaker>हनूमान् -
<note>(see errata, which strangely has बिभीषणः)</note>

<speaker>विभीषण: -</speaker> अये हनूमान् । हनूमन् ! ममागमनं देवाय निवेदय ।

<speaker>हनूमान् -</speaker> बाढम् । <stage>( उपगम्य )</stage> जयतु जयतु देवः ।
<verse>राजंस्त्वत्कारणादेव भ्रात्रा निर्विषयीकृतः ।
विभीषणोऽयं धर्मात्मा शरणार्थमुपागतः ॥ ९

<speaker>रामः -</speaker> कथं विभीषणः शरणागत इति । वत्स लक्ष्मण ! गच्छ,
सत्कृत्य प्रवेश्यतां विभीषणः ।
३

<speaker>लक्ष्मण: -</speaker> यदाज्ञापयत्यार्यः ।

<speaker>रामः -</speaker> सु

<speaker>सुग्रीवः -</speaker>देव ! बहुमायाश्छलयोधिनश्च राक्षसाः । तस्मात् सम्प्र-
६
धार्य प्रवेश्यतां विभीषणः ।

<speaker>हनूमा