2025-12-29 10:00:37 by ambuda-bot
This page has not been fully proofread.
—iv. 10.' ]
चतुर्थोऽङ्कः ।
अथवा,
३४९
दृष्टधर्मार्थतत्त्वोऽयं साधुः संश्रितवत्सलः ।
शङ्कनीयः कथं रामो विशुद्धमनसा मया ॥ ८ ॥
( अधोऽवलोक्य) इदं रघुकुलवृषभस्य स्कन्धावारम् । यावदवत-
रामि । (अवतीर्य ) हन्त इह स्थित्वा ममागमनं देवाय निवेदयामि ।
३ हनूमान् - ( ऊर्ध्वमवलोक्य) अये कथं तत्रभवान् विमीषणः ।
विभीषण: - अये हनूमान् । हनूमन् ! ममागमनं देवाय निवेदय ।
हनूमान् - बाढम् । ( उपगम्य ) जयतु जयतु देवः ।
राजंस्त्वत्कारणादेव भ्रात्रा निर्विषयीकृतः ।
विभीषणोऽयं धर्मात्मा शरणार्थमुपागतः ॥ ९
रामः - कथं विभीषणः शरणागत इति । वत्स लक्ष्मण ! गच्छ,
सत्कृत्य प्रवेश्यतां विभीषणः ।
३ लक्ष्मण: - यदाज्ञापयत्यार्यः ।
रामः - सुप्रीव वक्तुकाममिव त्वां लक्षये ।
सुग्रीवः -देव ! बहुमायाश्छलयोधिनश्च राक्षसाः । तस्मात् सम्प्र-
६ धार्य प्रवेश्यतां विभीषणः ।
हनूमान - महाराज ! मा मैवं,
देवे यथा वयं भक्तास्तथा मन्ये विभीषणम् ।
भ्रात्रा विवदमानोऽपि दृष्टः पूर्वं पुरे मया ॥ १० ॥
राम: - यद्येवं, गच्छ, सत्कृत्य प्रवेश्यतां विभीषणः ।
लक्ष्मणः- यदाज्ञापयत्यार्यः । ( परिक्रम्य ) अये विभीषणः । विभी-
३ षण ! अपि कुशली भवान् ।
विभीषणः- अये कुमारो लक्ष्मणः। कुमार ! अद्य कुशली संवृत्तोऽस्मि ।
लक्ष्मणः- विभीषण ! उपसर्पावस्तावदार्यम् ।
२९