2026-01-30 06:16:03 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>३४८
अभिषेकनाटके
</ignore>

<speaker>लक्ष्मणः -</speaker> एष एष भगवान् वरुणः,

<ignore>[iv. 2.''-
</ignore>
<verse>सजलजलधरेन्द्रनीलनीरो विलुलितफेनतरङ्गचारुहारः ।
समधिगतनदीसहस्रबाहुर्हरिरिव भाति सरित्पतिः शयानः ॥ ३॥
</verse>

<speaker>रामः - </speaker>कथं कथं भोः !

<verse>रिपुमुद्धर्तुमुद्यन्तं मामयं सक्तसायकम् ।
सजीवमद्य तं कर्तुं निवारयति सागरः ॥ ४ ॥
</verse>

<speaker>सुग्रीवः -</speaker> अये वियति

<verse>सजलजलदसन्निभप्रकाशः
कनकमयामलभूषणोज्ज्वलाङ्गः ।
अभिपतति कुतो नु राक्षसोऽसौ

शलभ इवाशु हुताशनं प्रवेष्टुम् ॥ ५ ॥
</verse>

<speaker>हनूमान् -</speaker> भो भो वानरवीराः ! अप्रमत्ता भवन्तु भवन्तः ।

<verse>शैलैर्दुद्रुमैः सम्प्रति मुष्टिबन्धैर्दन्तैर्नखैर्जानुभिरुप्ग्रनादैः ।
रक्षोवधार्थं युधि वानरेन्द्रास्तिष्ठन्तु रक्षन्तु च नो नरेन्द्रम् ॥६॥
</verse>

<speaker>रामः -</speaker> राक्षस इति । हनूमन् ! अलमलं सम्भ्रमेण ।

<speaker>हनूमान् -</speaker> यदाज्ञापयति देवः ।

<stage>( ततः प्रविशति विभीषणः । )
३
</stage>

<speaker>विभीषणः -</speaker> भोः ! प्राप्तोऽस्मि राघवस्य
( विचिन्त्य )
शिबिरसन्निवेशम् ।
<stage>( विचिन्त्य ) </stage>अकृतदूतसम्प्रेषणमविदितागमनममित्र सम्बन्धिनं
६
कथंनुखलु मामवगच्छेत् तत्रभवान् राघवः । कुतः,

<verse>क्रुद्धस्य यस्य पुरतः सहितोऽप्यशक्तः
स्थातुं सुरैः सुररिपोर्युधि वज्रपाणिः ।
तस्वायानुजं रघुपतिः शरणागतं मां
किं वक्ष्यतीति हृदयं परिशङ्कितं मे ॥ ७ ॥
૨૮
</verse>
</page>
<ignore>३४८
अभिषेकनाटके

<speaker>लक्ष्मणः -</speaker> एष एष भगवान् वरुणः,
<ignore>[iv. 2.
<verse>सजलजलधरेन्द्रनीलनीरो विलुलितफेनतरङ्गचारुहारः ।
समधिगतनदीसहस्रबाहुर्हरिरिव भाति सरित्पतिः शयानः ॥ ३॥

<speaker>रामः
<verse>रिपुमुद्धर्तुमुद्यन्तं मामयं सक्तसायकम् ।
सजीवमद्य तं कर्तुं निवारयति सागरः ॥ ४ ॥

<speaker>सुग्रीवः -</speaker> अये वियति
<verse>सजलजलदसन्निभप्रकाशः
कनकमयामलभूषणोज्ज्वलाङ्गः ।
अभिपतति कुतो नु राक्षसोऽसौ

शलभ इवाशु हुताशनं प्रवेष्टुम् ॥ ५ ॥

<speaker>हनूमान् -</speaker> भो भो वानरवीराः ! अप्रमत्ता भवन्तु भवन्तः ।
<verse>शैलैर्
रक्षोवधार्थं युधि वानरेन्द्रास्तिष्ठन्तु रक्षन्तु च नो नरेन्द्रम् ॥६॥

<speaker>रामः -</speaker> राक्षस इति । हनूमन् ! अलमलं सम्भ्रमेण ।

<speaker>हनूमान् -</speaker> यदाज्ञापयति देवः ।

<stage>( ततः प्रविशति विभीषणः । )
३

<speaker>विभीषणः -</speaker> भोः ! प्राप्तोऽस्मि राघवस्य
( विचिन्त्य )
<stage>( विचिन्त्य ) </stage>अकृतदूतसम्प्रेषणमविदितागमनममित्र
६
कथंनुखलु मामवगच्छेत् तत्रभवान् राघवः । कुतः,
<verse>क्रुद्धस्य यस्य पुरतः सहितोऽप्यशक्तः
स्थातुं सुरैः सुररिपोर्युधि वज्रपाणिः ।
तस्
किं वक्ष्यतीति हृदयं परिशङ्कितं मे ॥ ७ ॥
૨૮
</page>