This page has not been fully proofread.

३४८
 
अभिषेकनाटके
 
लक्ष्मणः - एष एष भगवान् वरुणः,
 
[iv. 2.'-
 
सजलजलधरेन्द्रनीलनीरो विलुलितफेनतरङ्गचारुहारः ।
समधिगतनदीसहस्रबाहुर्हरिरिव भाति सरित्पतिः शयानः ॥ ३॥
 
रामः कथं कथं भोः !
 
रिपुमुद्धर्तुमुद्यन्तं मामयं सक्तसायकम् ।
 
सजीवमद्य तं कर्तुं निवारयति सागरः ॥ ४ ॥
 
सुग्रीवः - अये वियति
 
सजलजलदसन्निभप्रकाशः
 
कनकमयामलभूषणोज्ज्वलाङ्गः ।
अभिपतति कुतो नु राक्षसोऽसौ
 
:
 
शलभ इवाशु हुताशनं प्रवेष्टुम् ॥ ५ ॥
 
हनूमान् - भो भो वानरवीराः ! अप्रमत्ता भवन्तु भवन्तः ।
शैलैर्दुमैः सम्प्रति मुष्टिबन्धैर्दन्तैर्नखैर्जानुभिरुप्रनादैः ।
रक्षोवधार्थं युधि वानरेन्द्रास्तिष्ठन्तु रक्षन्तु च नो नरेन्द्रम् ॥६॥
रामः - राक्षस इति । हनूमन् ! अलमलं सम्भ्रमेण ।
 
हनूमान् - यदाज्ञापयति देवः ।
 
( ततः प्रविशति विभीषणः । )
 

 
विभीषणः - भोः ! प्राप्तोऽस्मि राघवस्य
 
( विचिन्त्य )
 
शिबिरसन्निवेशम् ।
 
अकृतदूतसम्प्रेषणमविदितागमनममित्र सम्बन्धिनं
 
६ कथंनुखलु मामवगच्छेत् तत्रभवान् राघवः । कुतः,
 
क्रुद्धस्य यस्य पुरतः सहितोऽप्यशक्तः
 
स्थातुं सुरैः सुररिपोर्युधि वज्रपाणिः ।
तस्वानुजं रघुपतिः शरणागतं मां
 
किं वक्ष्यतीति हृदयं परिशङ्कितं मे ॥ ७ ॥
 
૨૮