2026-01-30 06:12:02 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<heading>अथ चतुर्थोऽङ्कः ।
</heading>

<stage>(ततः प्रविशति वानरकाञ्चुकीयः । )
३</stage>

<speaker>काञ्चुकीयः -</speaker> भो भो बलाध्यक्ष ! सन्नाहमाज्ञापय वानरवाहिनीम् ।

<stage>( प्रविश्य )
</stage>

<speaker>बलाध्यक्षः -</speaker> आर्य ! किंकृतोऽयं समुद्योगः ।
६

<speaker>काल्चुकीयः-</speaker> तत्रभवता हनूमतानीतः खल्वार्यरामस्य देव्याः सीताया
वृत्तान्तः ।

<speaker>बलाध्यक्ष :-</speaker> किमिति किमिति ।
९

<speaker>काञ्चुकीयः-</speaker> श्रूयतां,

<verse>लङ्कायां किल वर्तते नृपसुता शोकाभिभूता भृशं
पौलस्त्येन विहाय धर्मसमयं संक्लेश्यमाना ततः ।
श्रुत्वैतद् भृशशोकतप्तमनसो रामस्य कार्यार्थिना
राज्ञा वानरवाहिनी प्रतिभया सन्नाहमाज्ञापिता ॥ १ ॥
</verse>

<speaker>बलाध्यक्षः-</speaker>एवम् । यदाज्ञापयति महाराजः ।

<speaker>काञ्चुकीयः-</speaker> यावदहमपि सन्नद्धा वानरवाहिनीति महाराजाय
३
निवेदयामि ।
रामः-

<stage>( निष्क्रान्तौ । )
</stage>

<trailer>विष्कम्भकः ।
</trailer>

<stage>(ततः प्रविशति राम्रो लक्ष्मणः सुग्रीवो हनुमांश्च । )
</stage>

<speaker>रामः-</speaker>

<verse>आक्रान्ताः पृथुसानुकुञ्जगहना मेघोपमाः पर्वताः
सिंहव्याघ्रगजेन्द्रपीतस लिला नद्यश्व तीर्णा मया ।
क्रान्तं पुष्पफलाढढ्यपादपयुतं चित्रं महत् काननं
सम्प्राप्तोऽस्मि कर्पापीन्द्रसैन्यसहितो वेलातटं साम्प्रतम् ॥ २ ॥
२७
</verse>
</page>
<heading>अथ चतुर्थोऽङ्कः ।

<stage>(ततः प्रविशति वानरकाञ्चुकीयः । )
३

<speaker>काञ्चुकीयः -</speaker> भो भो बलाध्यक्ष ! सन्नाहमाज्ञापय वानरवाहिनीम् ।

<stage>( प्रविश्य )

<speaker>बलाध्यक्षः -</speaker> आर्य ! किंकृतोऽयं समुद्योगः ।
६

<speaker>काल्चुकीयः-</speaker> तत्रभवता हनूमतानीतः खल्वार्यरामस्य देव्याः सीताया
वृत्तान्तः ।

<speaker>बलाध्यक्ष :-</speaker> किमिति किमिति ।
९

<speaker>काञ्चुकीयः-</speaker> श्रूयतां,
<verse>लङ्कायां किल वर्तते नृपसुता शोकाभिभूता भृशं
पौलस्त्येन विहाय धर्मसमयं संक्लेश्यमाना ततः ।
श्रुत्वैतद् भृशशोकतप्तमनसो रामस्य कार्यार्थिना
राज्ञा वानरवाहिनी प्रतिभया सन्नाहमाज्ञापिता ॥ १ ॥

<speaker>बलाध्यक्षः-</speaker>एवम् । यदाज्ञापयति महाराजः ।

<speaker>काञ्चुकीयः-</speaker> यावदहमपि सन्नद्धा वानरवाहिनीति महाराजाय
३
निवेदयामि ।
रामः-

<stage>( निष्क्रान्तौ । )
<trailer>विष्कम्भकः ।

<stage>(ततः प्रविशति राम्रो लक्ष्मणः सुग्रीवो हनुमांश्च । )

<speaker>रामः-</speaker>

<verse>आक्रान्ताः पृथुसानुकुञ्जगहना मेघोपमाः पर्वताः
सिंहव्याघ्रगजेन्द्रपीतस
क्रान्तं पुष्पफला
सम्प्राप्तोऽस्मि क
२७
</page>