This page has not been fully proofread.

अथ चतुर्थोऽङ्कः ।
 
(ततः प्रविशति वानरकाञ्चुकीयः । )
 
३ काञ्चुकीयः - भो भो बलाध्यक्ष ! सन्नाहमाज्ञापय वानरवाहिनीम् ।
( प्रविश्य )
 
बलाध्यक्षः - आर्य ! किंकृतोऽयं समुद्योगः ।
 
६ काल्चुकीयः- तत्रभवता हनूमतानीतः खल्वार्यरामस्य देव्याः सीताया
वृत्तान्तः ।
 
बलाध्यक्ष :- किमिति किमिति ।
 
९ काञ्चुकीयः- श्रूयतां,
 
लङ्कायां किल वर्तते नृपसुता शोकाभिभूता भृशं
 
पौलस्त्येन विहाय धर्मसमयं संक्लेश्यमाना ततः ।
 
श्रुत्वैतद् भृशशोकतप्तमनसो रामस्य कार्यार्थिना
 
राज्ञा वानरवाहिनी प्रतिभया सन्नाहमाज्ञापिता ॥ १ ॥
बलाध्यक्षः-एवम् । यदाज्ञापयति महाराजः ।
 
काञ्चुकीयः- यावदहमपि सन्नद्धा वानरवाहिनीति महाराजाय
 
३ निवेदयामि ।
 
रामः-
 
( निष्क्रान्तौ । )
 
विष्कम्भकः ।
 
(ततः प्रविशति राम्रो लक्ष्मणः सुग्रीवो हनुमांश्च । )
 
आक्रान्ताः पृथुसानुकुञ्जगहना मेघोपमाः पर्वताः
सिंहव्याघ्रगजेन्द्रपीतस लिला नद्यश्व तीर्णा मया ।
 
क्रान्तं पुष्पफलाढयपादपयुतं चित्रं महत् काननं
 
सम्प्राप्तोऽस्मि कर्पान्द्रसैन्यसहितो वेलातटं साम्प्रतम् ॥ २ ॥
 
२७