This page has been fully proofread once and needs a second look.

<page>
<ignore>
३४६

अभिषेक नाटके

</ignore>
<ignore>
[ iii. 23.

</ignore>

<speaker>
रावणः -</speaker> दत्तमभयम् । उच्यताम् ।

<speaker>
विभीषण: -</speaker> बलवद्विग्रहश्च ।

<speaker>
रावणः - </speaker> <stage>( सरोषम् )</stage> कथं कथं बलवद्विग्रहो नाम ।

<verse>
शत्रुपक्षमुपाश्रित्य मामयं राक्षसाधमः ।

क्रोधमाहारयंस्तीत्व्रमभीरुरभिभाषते ॥ २४ ॥

</verse>

कोsa ।

ऽत्र ।

<verse>
ममानवेक्ष्य सौभ्रात्रं शत्रुपक्षमुपाश्रितम् ।

नोत्सहे पुरतो द्रष्टुं तस्मादेष निरस्यताम् ॥ २५ ॥
</verse>

<speaker>
विभीषणः -</speaker> प्रसीदतु प्रसीदतु महाराजः । अहमेव यास्यामि ।

<verse>
शासितोऽहं त्वया राजन् ! प्रयामि न च दोषवान् ।

त्यक्त्वा रोषं च कामं च यथा कार्यं तथा कुरु ॥ २६ ॥

</verse>

<stage>
( परिक्रम्य )</stage> अयमिदानीम् -

<verse>
अद्यैव तं कमललोचनमुग्रचापं

रामं हि रावणवधाय कृतप्रतिज्ञम् ।

संश्रित्य संश्रितहितप्रथितं नृदेवं

नष्टं निशाचर कुलं पुनरुद्धरिष्ये ॥ २७ ॥

</verse>

<stage>
( निष्क्रान्तः । )

</stage>

<speaker>
रावणः -</speaker> हन्त निर्गतो विभीषणः । यावदहमपि नगररक्षां सम्पा-

दयामि । <stage>( निष्क्रान्तः । )

</stage>

<trailer>
तृतीयोऽङ्कः ।

</trailer>
<ignore>
२६

</ignore>
</page>