This page has not been fully proofread.

iii. 23.18 ]
 
तृतीयोऽङ्कः ।
 
अभिभूतो मया राम ! दारापहरणादसि ।
 
३४५
 
यदि तेऽस्ति धनुःश्लाघा दीयतां मे रणो महान् ॥ २२ ॥
हनूमान् - अचिराद् द्रक्ष्यसि,
 
अभिहतवरवप्रगोपुराट्टां
 
रघुवर कार्मुकनादनिर्जितस्त्वम् ।
हरिगणपरिपीडितैः समन्तात्
 
प्रमदवनैरभिसंवृतां स्वलङ्काम् ॥ २३ ॥
 
रावण :- आः निर्वास्यतामयं वानरः ।
 
राक्षसाः- इत इतः ।
 
( रक्षोभि: सह निष्क्रान्तो हनूमान् । )
 
विभीषणः - प्रसीदतु प्रसीदतु महाराजः । अस्ति काचिद् विवक्षा
महाराजस्य हितमन्तरेण ।
 
६ रावणः - उच्यतां, तच्छ्रेयो वयमपि श्रोतारः ।
 
विभीषणः- सर्वथा राक्षसकुलस्य विनाशोऽभ्यागत इति मन्ये ।
रावणः - केन कारणेन ।
 
९ विभीषणः - महाराजस्य विप्रतिपत्त्या ।
 
रावणः - का मे विप्रतिपत्तिः ।
 
विभीषणः - ननु सीतापहरणमेव ।
 
१२ रावण:-
:- सीतापहरणेन को दोषः स्यात् ।
 
विभीषणः - अधर्मश्व ।
 
रावणः - चशब्देन सावशेषमिव ते वचनम् । तद् ब्रूहि ।
 
१५ विभीषणः - तदेव ननु ।
 
रावणः - विभीषण ! किं गृहसे । मम खलु प्राणैः शापिताः स्याः,
 
यदि सत्यं न ब्रूयाः ।
 
१८ विभीषण: - अभयं दातुमर्हति महाराजः ।
 
अ. १९
 
२५