This page has been fully proofread once and needs a second look.

<page>
<ignore>
३४४

अभिकनाटके

</ignore>
<ignore>
[iii. 17. -

</ignore>

<speaker>
हनूमान् -</speaker> एवंविधेन भवता किमर्थं प्रच्छन्नं तस्य दारापहरणं कृतम् ।

<speaker>
विभीषणः -</speaker> सम्यगाह हनूमान् ।

<verse>
अपास्य मायया रामं त्वया राक्षसपुङ्गव ! ।

भिक्षुवेषं समास्थाय च्छलेनापहृता हि सा ॥ १८ ॥

</verse>

<speaker>
रावणः -</speaker> विभीषण ! किं विपक्षपक्षमवलम्बसे ।

<speaker>
विभीषण:-

</speaker>

<verse>
प्रसीद राजन् ! वचनं हितं मे प्रदीयतां राघवधर्मपत्नी ।

इदं कुलं राक्षसपुङ्गवेन त्वया हि नेच्छामि विपद्यमानम् ॥१९॥
</verse>

<speaker>
रावण :-</speaker> विभीषण ! अलमलं भयेन ।

<verse>
कथं लम्बसटः सिंहो मृगेण विनिपात्यते ।

गजो वा सुमहान् मत्तः शृगालेन निहन्यते ॥ २० ॥
</verse>

<speaker>
हनूमान् -</speaker> भो रावण ! विपद्यमानभाग्येन भवता किं युक्तं राघवमे
वं
वक्तुम् । मा तावद् भोः !

<verse>
नक्तञ्चरापसद ! रावण ! राघवं तं

वीराग्रगण्यमतुलं त्रिदशेन्द्रकल्पम् ।

प्रक्षीणपुण्य ! भवता भुवनैकनाथं

वक्तुं किमेवमुचितं गतसार ! नीचैः ॥ २१ ॥

</verse>

<speaker>
रावणः-</speaker> कथं कथं नामाभिधत्ते । हन्यतामयं वानरः । अथवा दूत-

वधः खलु वचनीयः । शङ्कुकर्ण ! लाङ्गूलमादीप्य विसृज्यतामयं

वानरः ।

<speaker>
शङ्कुकर्ण: -</speaker> यदाज्ञापयति महाराजः । इत इतः ।

<speaker>
रावणः -</speaker> अथवा एहि तावत् ।

<speaker>
हनूमान् -</speaker>अयमस्मि ।

<speaker>
रावण:-</speaker> अभिधीयतां मद्वचनात् स मानुषः ।

<ignore>
२४

</ignore>
</page>