2025-12-29 10:00:36 by ambuda-bot
This page has not been fully proofread.
३४४
अभिकनाटके
[iii. 17. -
हनूमान् - एवंविधेन भवता किमर्थं प्रच्छन्नं तस्य दारापहरणं कृतम् ।
विभीषणः - सम्यगाह हनूमान् ।
अपास्य मायया रामं त्वया राक्षसपुङ्गव ! ।
भिक्षुवेषं समास्थाय च्छलेनापहृता हि सा ॥ १८ ॥
रावणः - विभीषण ! किं विपक्षपक्षमवलम्बसे ।
विभीषण:-
प्रसीद राजन् ! वचनं हितं मे प्रदीयतां राघवधर्मपत्नी ।
इदं कुलं राक्षसपुङ्गवेन त्वया हि नेच्छामि विपद्यमानम् ॥१९॥
रावण :- विभीषण ! अलमलं भयेन ।
कथं लम्बसटः सिंहो मृगेण विनिपात्यते ।
गजो वा सुमहान् मत्तः शृगालेन निहन्यते ॥ २० ॥
हनूमान् - भो रावण ! विपद्यमानभाग्येन भवता किं युक्तं राघवमेव
वक्तुम् । मा तावद् भोः !
नक्तञ्चरापसद ! रावण ! राघवं तं
वीराग्रगण्यमतुलं त्रिदशेन्द्रकल्पम् ।
प्रक्षीणपुण्य ! भवता भुवनैकनाथं
वक्तुं किमेवमुचितं गतसार ! नीचैः ॥ २१ ॥
रावणः- कथं कथं नामाभिधत्ते । हन्यतामयं वानरः । अथवा दूत-
वधः खलु वचनीयः । शङ्कुकर्ण ! लाङ्गूलमादीप्य विसृज्यतामयं
३ वानरः ।
शङ्कुकर्ण: - यदाज्ञापयति महाराजः । इत इतः ।
रावणः - अथवा एहि तावत् ।
६ हनूमान् -अयमस्मि ।
रावण:- अभिधीयतां मद्वचनात् स मानुषः ।
२४