This page has been fully proofread once and needs a second look.

<page>
<ignore>
-iii. 17.]

तृतीयोऽङ्कः ।

</ignore>

<speaker>
विभीषणः -</speaker> प्रष्टुमर्हति महाराजः कस्त्वमिति ।

३४३

<speaker>
रावणः-</speaker>भो वानर ! कस्त्वम् । केन कारणेन धर्षितोऽस्माकमन्तःपुरं

प्रविष्टः ।

<speaker>
हनूमान्-</speaker> भोः ! श्रूयताम्,

<verse>
अञ्जनायां समुत्पन्नो मारुतस्यैौयौरसः सुतः ।

प्रेषितो राघवेणाहं हनूमान् नाम वानरः ॥ १५ ॥

</verse>

<speaker>
विभीषणः -</speaker> महाराज ! किं श्रुतम् ।

<speaker>
रावणः -</speaker> किं श्रुतेन ।

<speaker>
विभीषणः -</speaker> हनूमन् ! किमाह तत्रभवान् राघवः ।

<speaker>
हनूमान्-</speaker> भोः ! श्रूयतां रामशासनम् ।

<speaker>
रावणः-</speaker>कथं कथं रामशासनमित्याह । आः हन्यतामयं वानरः ।

<speaker>
विभीषणः -</speaker> प्रसीदतु प्रसीदतु महाराजः । सर्वापराधेष्ववध्याः खलु

दूताः । अथवा रामस्य वचनं श्रुत्वा पश्चाद् यथेष्टं कर्तुमर्हति

महाराजः ।

<speaker>
रावणः -</speaker> भो वानर ! किमाह स मानुषः ।

<speaker>
हनूमान्-</speaker> भोः ! श्रूयतां,

<verse>
वरशरणमुपेहि शङ्करं वा प्रविश च दुर्गतमं रसातलं वा ।
१२

शरवर परिभिन्नसर्वगात्रं यमसदनं प्रतियापयाम्यहं त्वाम् ॥ १६॥

</verse>

इति ।

<speaker>
रावणः - ह ह ह ।

</speaker> ह ह ह ।

<verse>
दिव्यास्त्रैस्त्रिदशगणा मयाभिभूता

दैत्येन्द्रा मम वशवर्तिनः समस्ताः ।

पौलस्त्योऽप्यपहृतपुष्पकोऽवसन्नो

भो ! रामः कथमभियाति मानुषो माम् ॥ १७ ॥

२३

</verse>
</page>