2025-12-29 10:00:36 by ambuda-bot
This page has not been fully proofread.
-iii. 17.]
तृतीयोऽङ्कः ।
विभीषणः - प्रष्टुमर्हति महाराजः कस्त्वमिति ।
३४३
रावणः-भो वानर ! कस्त्वम् । केन कारणेन धर्षितोऽस्माकमन्तःपुरं
३ प्रविष्टः ।
हनूमान् भोः ! श्रूयताम्,
अञ्जनायां समुत्पन्नो मारुतस्यैौरसः सुतः ।
प्रेषितो राघवेणाहं हनूमान् नाम वानरः ॥ १५ ॥
विभीषणः - महाराज ! किं श्रुतम् ।
रावणः - किं श्रुतेन ।
३ विभीषणः - हनूमन् ! किमाह तत्रभवान् राघवः ।
हनूमान् भोः ! श्रूयतां रामशासनम् ।
रावणः-कथं कथं रामशासनमित्याह । आः हन्यतामयं वानरः ।
६ विभीषणः - प्रसीदतु प्रसीदतु महाराजः । सर्वापराधेष्ववध्याः खलु
दूताः । अथवा रामस्य वचनं श्रुत्वा पश्चाद्यथेष्टं कर्तुमर्हति
महाराजः ।
९ रावणः - भो वानर ! किमाह स मानुषः ।
हनूमान् भोः ! श्रूयतां,
वरशरणमुपेहि शङ्करं वा प्रविश च दुर्गतमं रसातलं वा ।
१२ शरवर परिभिन्नसर्वगात्रं यमसदनं प्रतियापयाम्यहं त्वाम् ॥ १६॥
इति ।
रावणः - ह ह ह ।
दिव्यास्त्रिदशगणा मयाभिभूता
दैत्येन्द्रा मम वशवर्तिनः समस्ताः ।
पौलस्त्योऽप्यपहृतपुष्पकोऽवसन्नो
भो ! रामः कथमभियाति मानुषो माम् ॥ १७ ॥
२३