This page has been fully proofread once and needs a second look.

<page>
<ignore>
३४२

अभिषेक नाटके

</ignore>

<stage>
( ततः प्रविशति विभीषणः । )

</stage>

<ignore>
[iii.12.

</ignore>

<speaker>
विभीषणः - </speaker> <stage>( सविमर्शम् )</stage> अहोतुखलु महाराजस्य विपरीता खलु

बुद्धिः संवृत्ता । कुतः,

<verse>
मयोक्तो मैथिली तस्मै बहुशो दीयतामिति ।

न मे शृणोति वचनं सुहृदां शोककारणात् ॥ १३॥
</verse>

<stage>
( उपेत्य )

</stage>

<metadata>speaker = inherit</metadata>

जयतु महाराजः ।

<speaker>
रावणः -</speaker> विभीषण ! एह्येहि । उपविश ।

<speaker>
विभीषण: -</speaker> एष एष उपविशामि । <stage>( उपविशति )
</stage>

<speaker>
रावणः-</speaker>विभीषण ! निर्विण्णमिव त्वां लक्षये ।

<speaker>
विभीषणः -</speaker> निर्वेद एव खल्त्रनुक्तमाग्राहिणं स्वामिनमुपाश्रित<error>स्व
</error><fix>स्य</fix>
भृत्यजनस्य ।

<speaker>रावणः
-</speaker> छिद्यतामेषा कथा । त्वमपि तावद् वानरमानय ।

राव

<speaker>विभीष
णः -

९ विभीषणः -
</speaker> यदाज्ञापयति महाराजः । <stage>(निष्क्रान्तः । )

</stage>

<stage>
( ततः प्रविशति राक्षसैर्गृहीतो हनूमान् । )

</stage>

<speaker>
वेंर्वे -</speaker> आः इत इतः ।

१२

<speaker>
हनूमान् -

</speaker>

<verse>
नैवाहं धर्षितस्तेन नैर्ऋतेन दुरात्मना ।

स्वयं ग्रहणमापन्नो राक्षसेशदिदृक्षया ॥ १४ ॥

</verse>

<stage>
( उपगम्य )

</stage>

भो राजन् ! अपि कुशली भवान् ।

<speaker>
रावणः : - </speaker> <stage>( सावज्ञम् )</stage> विभीषण ! किमस्य तत् कर्म ।

<speaker>
विभीषणः -</speaker> महाराज ! अतोऽप्यधिकम् ।

<speaker>
रावणः -</speaker> कथं त्वमवगच्छसि ।

२२

</page>