2026-01-30 05:58:45 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>३४२
अभिषेक नाटके
</ignore>

<stage>( ततः प्रविशति विभीषणः । )
</stage>

<ignore>[iii.12.
</ignore>

<speaker>विभीषणः - </speaker> <stage>( सविमर्शम् )</stage> अहोतुखलु महाराजस्य विपरीता खलु
३
बुद्धिः संवृत्ता । कुतः,

<verse>मयोक्तो मैथिली तस्मै बहुशो दीयतामिति ।
न मे शृणोति वचनं सुहृदां शोककारणात् ॥ १३॥
</verse>

<stage>( उपेत्य )
</stage>

<metadata>speaker = inherit</metadata>

जयतु महाराजः ।
३

<speaker>रावणः -</speaker> विभीषण ! एह्येहि । उपविश ।

<speaker>विभीषण: -</speaker> एष एष उपविशामि । <stage>( उपविशति )
</stage>

<speaker>रावणः-</speaker>विभीषण ! निर्विण्णमिव त्वां लक्षये ।
६

<speaker>विभीषणः -</speaker> निर्वेद एव खल्त्रवनुक्तमाग्राहिणं स्वामिनमुपाश्रित<error>स्व
</error><fix>स्य</fix>
भृत्यजनस्य ।

<speaker>रावणः-</speaker> छिद्यतामेषा कथा । त्वमपि तावद् वानरमानय ।
राव

<speaker>विभीषणः -१
९ विभीषणः -</speaker> यदाज्ञापयति महाराजः । <stage>(निष्क्रान्तः । )
</stage>

<stage>( ततः प्रविशति राक्षसैर्गृहीतो हनूमान् । )
</stage>

<speaker>सवेंर्वे -</speaker> आः इत इतः ।
१२

<speaker>हनूमान् -
</speaker>

<verse>नैवाहं धर्षितस्तेन नैर्ऋतेन दुरात्मना ।
स्वयं ग्रहणमापन्नो राक्षसेशदिदृक्षया ॥ १४ ॥
</verse>

<stage>( उपगम्य )
</stage>

भो राजन् ! अपि कुशली भवान् ।
३

<speaker>रावणः: - </speaker> <stage>( सावज्ञम् )</stage> विभीषण ! किमस्य तत् कर्म ।

<speaker>विभीषणः -</speaker> महाराज ! अतोऽप्यधिकम् ।

<speaker>रावणः -</speaker> कथं त्वमवगच्छसि ।
२२

</page>
<ignore>३४२
अभिषेक नाटके

<stage>( ततः प्रविशति विभीषणः । )
<ignore>[iii.12.

<speaker>विभीषणः -
३
बुद्धिः संवृत्ता । कुतः,
<verse>मयोक्तो मैथिली तस्मै बहुशो दीयतामिति ।
न मे शृणोति वचनं सुहृदां शोककारणात् ॥ १३॥

<stage>( उपेत्य )
<metadata>speaker = inherit</metadata>

जयतु महाराजः ।
३

<speaker>रावणः -</speaker> विभीषण ! एह्येहि । उपविश ।

<speaker>विभीषण: -</speaker> एष एष उपविशामि । <stage>( उपविशति )

<speaker>रावणः-</speaker>विभीषण ! निर्विण्णमिव त्वां लक्षये ।
६

<speaker>विभीषणः -</speaker> निर्वेद एव खल्
भृत्यजनस्य ।

<speaker>रावणः-</speaker> छिद्यतामेषा कथा । त्वमपि तावद् वानरमानय ।
राव

<speaker>विभीषणः -
९ विभीषणः -

<stage>( ततः प्रविशति राक्षसैर्गृहीतो हनूमान् । )

<speaker>स
१२

<speaker>हनूमान् -
<verse>नैवाहं धर्षितस्तेन नैर्ऋतेन दुरात्मना ।
स्वयं ग्रहणमापन्नो राक्षसेशदिदृक्षया ॥ १४ ॥

<stage>( उपगम्य )

भो राजन् ! अपि कुशली भवान् ।
३

<speaker>रावणः

<speaker>विभीषणः -</speaker> महाराज ! अतोऽप्यधिकम् ।

<speaker>रावणः -</speaker> कथं त्वमवगच्छसि ।
२२
</page>