This page has not been fully proofread.

३४२
 
अभिषेक नाटके
 
( ततः प्रविशति विभीषणः । )
 
[iii.12.
 
विभीषणः - ( सविमर्शम् ) अहोतुखलु महाराजस्य विपरीता खलु
 
३ बुद्धिः संवृत्ता । कुतः,
 
मयोक्तो मैथिली तस्मै बहुशो दीयतामिति ।
 
न मे शृणोति वचनं सुहृदां शोककारणात् ॥ १३॥
( उपेत्य )
 
जयतु महाराजः ।
 
३ रावणः - विभीषण ! एह्येहि । उपविश ।
 
विभीषण: - एष एष उपविशामि । ( उपविशति )
रावणः-विभीषण ! निर्विण्णमिव त्वां लक्षये ।
 
६ विभीषणः - निर्वेद एव खल्त्रनुक्तमाहिणं स्वामिनमुपाश्रितस्व
भृत्यजनस्य ।
 
:- छिद्यतामेषा कथा । त्वमपि तावद् वानरमानय ।
 
रावणः-१
 
९ विभीषणः - यदाज्ञापयति महाराजः । (निष्क्रान्तः । )
 
( ततः प्रविशति राक्षसैर्गृहीतो हनूमान् । )
 
सवें - आः इत इतः ।
 
१२ हनूमान् -
 
नैवाहं धर्षितस्तेन नैर्ऋतेन दुरात्मना ।
 
स्वयं ग्रहणमापन्नो राक्षसेशदिदृक्षया ॥ १४ ॥
 
( उपगम्य )
 
भो राजन् ! अपि कुशली भवान् ।
 
३ रावणः : - ( सावज्ञम् ) विभीषण ! किमस्य तत् कर्म ।
 
विभीषणः - महाराज ! अतोऽप्यधिकम् ।
 
रावणः - कथं त्वमवगच्छसि ।
 
२२