This page has been fully proofread once and needs a second look.

<page>
<ignore>
-iii. 12.]

</ignore>
<ignore>

तृतीयोऽङ्कः ।

</ignore>

<speaker>
शङ्कुकर्ण: -</speaker> यदाज्ञापयति महाराजः । <stage>(निष्क्रान्तः । )
</stage>

<speaker>रावण
:-</speaker> कुमारो हि कृतास्त्रश्च,

रावण:-

<verse>
अवश्यं युधि वीराणां वधो वा विजयोऽथवा ।

तथापि क्षुद्रकर्मेदं माम<ref>१</ref>ह्यमीषन्मनोज्वरः ॥ ९ ॥
</verse>

<stage>
( प्रविश्य )

</stage>

<ignore>
३४१

</ignore>

<speaker>
शङ्कुकर्णः-</speaker>जयतु महाराजः । जयतु लङ्केश्वरः । जयतु भद्रमुखः ।

<verse>
संवृत्तं तुमुलं युद्धं कुमारस्य च तस्य च ।

ततः स वानरः शीघ्रं बद्धः पाशेन साम्प्रतम् ॥ १०॥

</verse>

<speaker>
रावणः -</speaker> कोऽत्र विस्मय इन्द्रजिता शाखामृगो बद्ध इति । कोऽत्र

भोः ! ।

<stage>
( प्रविश्य )

</stage>

<speaker>
राक्षसः -</speaker> जयतु महाराजः ।

<speaker>
रावणः -</speaker> गच्छ विभीषणस्तावदाहूयताम् ।

<speaker>
राक्षसः -</speaker> यदाज्ञापयति महाराजः । <stage>(निष्क्रान्तः । )

</stage>

<speaker>
रावणः -</speaker> त्वमपि तावद् वानरमानय ।

<speaker>
शङ्कुकर्णः -</speaker> यदाज्ञापयति महाराजः । <stage>(निष्क्रान्तः । )
</stage>
<speaker>
रावण: - </speaker> <stage>( विचिन्त्य )</stage> भोः ! कष्टम् ।

<verse>
अचिन्त्या मनसा लङ्का सहितैः सुरदानवैः ।

अभिभूय दशग्रीवं प्रविष्टः किल वानरः ॥ ११ ॥

</verse>

अपि च,

<verse>
जित्वा त्रैलोक्यमाजौ ससुरदनुसुतं यन्मया गर्वितेन

क्रान्त्वा कैलासमीशं स्वगणपरिवृतं साकमाकम्प्य देव्या ।

लब्ध्वा तस्मात् प्रसादं पुनरगसुतया नन्दिनानादृतत्वाद्

दत्तं शप्तं च ताभ्यां यदि कपिविकृतिच्छद्मना तन्मम स्यात् ॥ १२ ॥
</verse>
<footnote>
१. मह्यमीषां मनोज्वरः ?-

</footnote>
<ignore>
२१

</ignore>
</page>