This page has not been fully proofread.

-iii. 12.]
 

 
तृतीयोऽङ्कः ।
 
शङ्कुकर्ण: - यदाज्ञापयति महाराजः । (निष्क्रान्तः । )
:- कुमारो हि कृतास्त्रश्च,
 
रावण:-
 
अवश्यं युधि वीराणां वधो वा विजयोऽथवा ।
तथापि क्षुद्रकर्मेदं मामीषन्मनोज्वरः ॥ ९ ॥
( प्रविश्य )
 
३४१
 
शङ्कुकर्णः-जयतु महाराजः । जयतु लङ्केश्वरः । जयतु भद्रमुखः ।
संवृत्तं तुमुलं युद्धं कुमारस्य च तस्य च ।
 
ततः स वानरः शीघ्रं बद्धः पाशेन साम्प्रतम् ॥ १०॥
 
रावणः - कोऽत्र विस्मय इन्द्रजिता शाखामृगो बद्ध इति । कोऽत्र
भोः ! ।
 
( प्रविश्य )
 
राक्षसः - जयतु महाराजः ।
 
रावणः - गच्छ विभीषणस्तावदाहूयताम् ।
 
६ राक्षसः - यदाज्ञापयति महाराजः । (निष्क्रान्तः । )
 
रावणः - त्वमपि तावद् वानरमानय ।
 
शङ्कुकर्णः - यदाज्ञापयति महाराजः । (निष्क्रान्तः । )
९ रावण: - ( विचिन्त्य ) भोः ! कष्टम् ।
 
अचिन्त्या मनसा लङ्का सहितैः सुरदानवैः ।
 
अभिभूय दशग्रीवं प्रविष्टः किल वानरः ॥ ११ ॥
 
अपि च,
 
जित्वा त्रैलोक्यमाजौ ससुरदनुसुतं यन्मया गर्वितेन
 
क्रान्त्वा कैलासमीशं स्वगणपरिवृतं साकमाकम्प्य देव्या ।
लब्ध्वा तस्मात् प्रसादं पुनरगसुतया नन्दिनानादृतत्वाद्
 
दत्तं शप्तं च ताभ्यां यदि कपिविकृतिच्छद्मना तन्मम स्यात् ॥ १२ ॥
१. मह्यमीषां मनोज्वरः ?-
 
२१