This page has been fully proofread once and needs a second look.

<page>
<ignore>
३४०

</ignore>

<speaker>
रावण: - </speaker> <stage>( विचिन्त्य )

अभिषेकनाटके

</stage>

<verse>
कुमारो हि कृतास्त्रश्च शूरश्च बलवानपि ।

(iii. 5.3-

प्रसह्य चापि गृह्णीयाद्धन्याद् वा तं वनौकसम् ॥ ६ ॥
</verse>

<stage>
( प्रविश्य )

</stage>

<speaker>
शङ्कुकर्णः -</speaker> अनन्तरीयं बलमाज्ञापयितुमर्हति महाराजः ।

<speaker>
रावणः-

</speaker>किमर्थम् ।

<speaker>
शङ्कुकर्णः -</speaker> श्रोतुमर्हति महाराजः । कुमारं वानरमभिगच्छन्तं दृष्ट्वा

महाराजेनानाज्ञापिता अप्यनुगताः पञ्च सेनापतयः ।

<speaker>
रावणः -</speaker> ततस्ततः ।

<speaker>
शङ्कुकर्णः -</speaker>- ततस्तानभिद्रुतान् दृष्ट्वा किञ्चिद् भीत इव तोरण-

माश्रित्य का ञ्चपरिघ मुद्यम्य निपातितास्तेन हरिणा पश्र्ञ्च सेना-

पतयः ।

<speaker>
रावणः --</speaker> ततस्ततः ।

<speaker>
शङ्कुकर्णः–</speaker>ततः कुमारमक्षं

<verse>
क्रोधात् संरक्तनेत्रं त्वरिततरहयं स्यन्दनं वाहयन्तं

प्रावृट्कालाभ्रकल्पं परमलघुतरं बाणजालान् वमन्तम् ।

तान् बाणान् निर्विधुन्वन् कपिरपि सहसा तद्रथं लङ्यित्वा

कण्ठे संसङ्गृह्य धृष्टं मुदिततरमुखो मुष्टिना निर्जघान ॥ ७ ॥
</verse>

<speaker>रावणः-</speaker><stage>
( सरोषम् )</stage> आः, कथं कथं निर्जघानेति ।

रावणः-

<verse>
तिष्ठ त्वमहमेवैनमासाद्य कपिजन्तुकम् ।

एष भस्मीकरोम्यस्मत्क्रोधानलकणैः क्षणात् ॥ ८ ॥
</verse>

<speaker>
शङ्कुकर्ण:-</speaker> प्रसीदतु प्रसीदतु महाराजः । कुमारमक्षं निहतं श्रुत्वा

क्रोधाविष्टहृदयः कुमारेन्द्रजिदभिगतवांस्तं वनौकसम् ।

<speaker>
रावण: -</speaker> तेन हि गच्छ । भूयो ज्ञायतां वृत्तान्तः ।

२०

</page>