2025-12-29 10:00:35 by ambuda-bot
This page has not been fully proofread.
३४०
३ रावण: - ( विचिन्त्य )
अभिषेकनाटके
कुमारो हि कृतास्त्रश्च शूरश्च बलवानपि ।
(iii. 5.3-
प्रसह्य चापि गृह्णीयाद्धन्याद् वा तं वनौकसम् ॥ ६ ॥
( प्रविश्य )
शङ्कुकर्णः - अनन्तरीयं बलमाज्ञापयितुमर्हति महाराजः ।
३ रावणः-१
: - किमर्थम् ।
शङ्कुकर्णः - श्रोतुमर्हति महाराजः । कुमारं वानरमभिगच्छन्तं दृष्ट्वा
महाराजेनानाज्ञापिता अप्यनुगताः पञ्च सेनापतयः ।
६ रावणः - ततस्ततः ।
शङ्कुकर्णः -- ततस्तानभिद्रुतान् हवा किञ्चिद् भीत इव तोरण-
माश्रित्य का परिघ मुद्यम्य निपातितास्तेन हरिणा पश्र्च सेना-
९ पतयः ।
रावणः -- ततस्ततः ।
शङ्कुकर्णः–ततः कुमारमक्षं
क्रोधात् संरक्तनेत्रं त्वरिततरहयं स्यन्दनं वाहयन्तं
प्रावृट्कालाभ्रकल्पं परमलघुतरं बाणजालान् वमन्तम् ।
तान् बाणान् निर्विधुन्वन् कपिरपि सहसा तद्रथं लङ्कयित्वा
कण्ठे संगृह्य धृष्टं मुदिततरमुखो मुष्टिना निर्जघान ॥ ७ ॥
( सरोषम् ) आः, कथं कथं निर्जघानेति ।
रावणः-
तिष्ठ त्वमहमेवैनमासाद्य कपिजन्तुकम् ।
एष भस्मीकरोम्यस्मत्क्रोधानलकणैः क्षणात् ॥ ८ ॥
शङ्कुकर्ण:- प्रसीदतु प्रसीदतु महाराजः । कुमारमक्षं निहतं श्रुत्वा
क्रोधाविष्टहृदयः कुमारेन्द्रजिदभिगतवांस्तं वनौकसम् ।
३ रावण: - तेन हि गच्छ । भूयो ज्ञायतां वृत्तान्तः ।
२०