This page has been fully proofread once and needs a second look.

<page>
<ignore>
iii. 5. '' ]

रावण:-

तृतीयोऽङ्कः ।

</ignore>

<stage>
( ततः प्रविशति यथानिर्दिष्टो रावणः । )

</stage>

<ignore>
३३९

</ignore>

<speaker>रावण:-</speaker>

<verse>
कथं कथं भो नववाक्यवादिञ्छृणोमि शीघ्रं वद केन चाद्य ।

मुमूर्षुणा मुक्तभयेन धृष्टं वनाभिमर्दात् परिधर्षितोऽहम् ॥ ३ ॥
</verse>

<speaker>
शङ्कुकर्णः - </speaker> <stage>( उपसृत्य )</stage> जयतु महाराजः । अविदितागमनेन केनचिद्

वानरेण ससंरम्भमभिमृदिताशोकवनिका ।

<speaker>
रावणः-

</speaker> <stage>( सावज्ञम् )</stage> कथं वानरेणेति । गच्छ, शीघ्रं निगृह्यानय ।

<speaker>
शङ्कुकर्ण:-</speaker> यदाज्ञापयति महाराजः । <stage>(निष्क्रान्तः । )
</stage>

<speaker>
रावणः -</speaker> भवतु भवतु ।

<verse>
युधि जगत्त्रयभीतिकृतोऽपि मे यदि कृतं त्रिदशैरिदमप्रियम् ।

अनुभवन्त्वचिरादमृताशिनः फलमतो निजशाठ्य समुद्भवम् ॥४॥
</verse>

<stage>
( प्रविश्य )

</stage>

<speaker>
शङ्कुकर्णः -</speaker>जयतु महाराजः । महाराज ! महाबलः खलु स

वानरः । तेन खलु मृणालवदुत्पाटिताः सालवृक्षाः, मुष्टिना भग्नो

दारुपर्वतकः, पाणितलाभ्यामभिमृदितानि लतागृहाणि, नादेनैव

विसंज्ञीकृताः प्रमदवनपालाः । तस्य ग्रहणसमर्थं बलमाज्ञापयितु-

मर्हति महाराजः ।

<speaker>
रावणः -</speaker> तेन हि किङ्कराणां सहस्रं बलमाज्ञापय वानरग्रहणाय ।

<speaker>
शङ्कुकर्णः -</speaker> यदाज्ञापयति महाराजः । <stage>(निष्क्रम्य प्रविश्य)</stage> जयतु

महाराजः ।

<verse>
अस्मदीयैर्महावृक्षैरस्मदीया महाबलाः ।

क्षिप्रमेव हतास्तेन किङ्करा द्रुमयोधिना ॥ ५ ॥

</verse>

<speaker>
रावणः -</speaker> कथं हता इति । तेन हि कुमारमक्षमाज्ञापय वानरग्रहणाय ।

<speaker>
शङ्कुकर्ण: -</speaker> यदाज्ञापयति महाराज: । <stage>(निष्क्रान्तः । )

</stage>

<ignore>
१९

</ignore>
</page>