2025-12-29 10:00:35 by ambuda-bot
This page has not been fully proofread.
iii. 5. ' ]
रावण:-
तृतीयोऽङ्कः ।
( ततः प्रविशति यथानिर्दिष्टो रावणः । )
३३९
कथं कथं भो नववाक्यवादिञ्छृणोमि शीघ्रं वद केन चाद्य ।
मुमूर्षुणा मुक्तभयेन धृष्टं वनाभिमर्दात् परिधर्षितोऽहम् ॥ ३ ॥
शङ्कुकर्णः - ( उपसृत्य ) जयतु महाराजः । अविदितागमनेन केनचिद्
वानरेण ससंरम्भमभिमृदिताशोकवनिका ।
३ रावणः-
: - ( सावज्ञम् ) कथं वानरेणेति । गच्छ, शीघ्रं निगृह्यानय ।
शङ्कुकर्ण:- यदाज्ञापयति महाराजः । (निष्क्रान्तः । )
रावणः - भवतु भवतु ।
युधि जगत्त्रयभीतिकृतोऽपि मे यदि कृतं त्रिदशैरिदमप्रियम् ।
अनुभवन्त्वचिरादमृताशिनः फलमतो निजशाठ्य समुद्भवम् ॥४॥
( प्रविश्य )
शङ्कुकर्णः -जयतु महाराजः । महाराज ! महाबलः खलु स
३ वानरः । तेन खलु मृणालवदुत्पाटिताः सालवृक्षाः, मुष्टिना भग्नो
दारुपर्वतकः, पाणितलाभ्यामभिमृदितानि लतागृहाणि, नादेनैव
विसंज्ञीकृताः प्रमदवनपालाः । तस्य ग्रहणसमर्थं बलमाज्ञापयितु-
६ मर्हति महाराजः ।
रावणः - तेन हि किङ्कराणां सहस्रं बलमाज्ञापय वानरग्रहणाय ।
शङ्कुकर्णः - यदाज्ञापयति महाराजः । (निष्क्रम्य प्रविश्य) जयतु
९ महाराजः ।
अस्मदीयैर्महावृक्षैरस्मदीया महाबलाः ।
क्षिप्रमेव हतास्तेन किङ्करा द्रुमयोधिना ॥ ५ ॥
रावणः - कथं हता इति । तेन हि कुमारमक्षमाज्ञापय वानरग्रहणाय ।
शङ्कुकर्ण: - यदाज्ञापयति महाराज: । (निष्क्रान्तः । )
१९