2026-01-29 16:30:16 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<heading>अथ तृतीयोऽङ्कः ।
</heading>

<stage>(ततः प्रविशति शङ्कुकर्णः )
३</stage>

<speaker>शङ्कुकर्णः -</speaker> क इह भोः ! काञ्चनतोरणद्वारमशून्यं कुरुते ।

<stage>( प्रविश्य )
</stage>

<speaker>प्रतिहारी-</speaker> अय्य! अहं विजआ । किं करीअदु । <chaya>[ आर्य ! अहं
६
विजया । किं क्रियताम् । ]
</chaya>

<speaker>शङ्कुकर्णः -</speaker> विजये ! निवेद्यतां निवेद्यतां महाराजाय लङ्केश्वराय-

भग्नप्रायाशोकवनिकेति । कुतः,

<verse>यस्यां न प्रियमण्डनापि महिषी देवस्य मण्डोदरी
स्नेहाल्लुम्पति पल्लवान्न च पुनर्वीजन्ति यस्यां भयात् ।
वीजन्तो मलयानिला अपि करैरम्स्पृष्टबालदुद्रुमा
सेयं शक्ररिपोरशोकवनिका भग्नेति विज्ञाप्यताम् ॥ १ ॥
</verse>

<speaker>प्रतिहारी-</speaker> अय्य ! णिच्चं भट्टिपादमूले वत्तमाणस्स जणस्स अदिट्ठ-
पुरुवो अअं सम्भमो । किं एदं । <chaya>[ आर्य ! नित्यं भर्तृपादमूले
३
वर्तमानस्य जनस्यादृष्टपूर्वोऽयं संभ्रमः । किमेतद् । ]
</chaya>

<speaker>शङ्कुकर्णः-</speaker>भवति ! अतिपाति कार्यमिदम् । शीघ्रं निवेद्यतां
निवेद्यताम् ।
६

<speaker>प्रतिहारी -</speaker> अय्य ! इयं णिवेदेमि । <stage>(निष्क्रान्ता ) </stage> <chaya>[ आर्य ! इयं
निवेदयामि । ]
</chaya>

<speaker>शङ्कुकर्णः - </speaker> <stage>( पुरतो विलोक्य)</stage> अये अयं महाराजो लङ्केश्वर इत
९
एवाभिवर्तते । य एषः,

<verse>अमलकमलसन्निभोग्रनेत्रः
कनकमयोज्ज्वलदीपिकापुरोगः ।
त्वरितमभिपतत्यसौ सरोषो
युगपरिणामसमुद्यतो यथार्कः ॥ २ ॥
</verse>
<ignore>१८
</ignore>
</page>
<heading>अथ तृतीयोऽङ्कः ।

<stage>(ततः प्रविशति शङ्कुकर्णः )
३

<speaker>शङ्कुकर्णः -</speaker> क इह भोः ! काञ्चनतोरणद्वारमशून्यं कुरुते ।

<stage>( प्रविश्य )

<speaker>प्रतिहारी-</speaker> अय्य! अहं विजआ । किं करीअदु । <chaya>[ आर्य ! अहं
६
विजया । किं क्रियताम् । ]

<speaker>शङ्कुकर्णः -</speaker> विजये ! निवेद्यतां निवेद्यतां महाराजाय लङ्केश्वराय-
भग्नप्रायाशोकवनिकेति । कुतः,
<verse>यस्यां न प्रियमण्डनापि महिषी देवस्य मण्डोदरी
स्नेहाल्लुम्पति पल्लवान्न च पुनर्वीजन्ति यस्यां भयात् ।
वीजन्तो मलयानिला अपि करैर
सेयं शक्ररिपोरशोकवनिका भग्नेति विज्ञाप्यताम् ॥ १ ॥

<speaker>प्रतिहारी-</speaker> अय्य ! णिच्चं भट्टिपादमूले वत्तमाणस्स जणस्स अदिट्ठ-
पुरुवो अअं सम्भमो । किं एदं । <chaya>[ आर्य ! नित्यं भर्तृपादमूले
३
वर्तमानस्य जनस्यादृष्टपूर्वोऽयं संभ्रमः । किमेतद् । ]

<speaker>शङ्कुकर्णः-</speaker>भवति ! अतिपाति कार्यमिदम् । शीघ्रं निवेद्यतां
निवेद्यताम् ।
६

<speaker>प्रतिहारी -</speaker> अय्य ! इयं णिवेदेमि । <stage>(निष्क्रान्ता )
निवेदयामि । ]

<speaker>शङ्कुकर्णः -
९
एवाभिवर्तते । य एषः,
<verse>अमलकमलसन्निभोग्रनेत्रः
कनकमयोज्ज्वलदीपिकापुरोगः ।
त्वरितमभिपतत्यसौ सरोषो
युगपरिणामसमुद्यतो यथार्कः ॥ २ ॥
<ignore>१८
</page>