2025-12-29 10:00:35 by ambuda-bot
This page has not been fully proofread.
अथ तृतीयोऽङ्कः ।
(ततः प्रविशति शङ्कुकर्णः )
३ शङ्कुकर्णः - क इह भोः ! काचनतोरणद्वारमशून्यं कुरुते ।
( प्रविश्य )
प्रतिहारी- अय्य! अहं विजआ । किं करीअदु । [ आर्य ! अहं
६ विजया । किं क्रियताम् । ]
शङ्कुकर्णः - विजये ! निवेद्यतां निवेद्यतां महाराजाय लङ्केश्वराय-
भग्नप्रायाशोकवनिकेति । कुतः,
यस्यां न प्रियमण्डनापि महिषी देवस्य मण्डोदरी
स्नेहाल्लुम्पति पल्लवान्न च पुनर्वीजन्ति यस्यां भयात् ।
वीजन्तो मलयानिला अपि करैरम्पृष्टबालदुमा
सेयं शक्ररिपोरशोकवनिका भग्नेति विज्ञाप्यताम् ॥ १ ॥
प्रतिहारी- अय्य ! णिच्चं भट्टिपादमूले वत्तमाणस्स जणस्स अदिट्ठ-
पुरुवो अअं सम्भमो । किं एदं । [ आर्य ! नित्यं भर्तृपादमूले
३ वर्तमानस्य जनस्यादृष्टपूर्वोऽयं संभ्रमः । किमेतद् । ]
शङ्कुकर्णः-भवति ! अतिपाति कार्यमिदम् । शीघ्रं निवेद्यतां
निवेद्यताम् ।
६ प्रतिहारी - अय्य ! इयं णिवेदेमि । (निष्क्रान्ता ) [ आर्य ! इयं
निवेदयामि । ]
शङ्कुकर्णः - ( पुरतो विलोक्य) अये अयं महाराजो लङ्केश्वर इत
९ एवाभिवर्तते । य एषः,
अमलकमलसन्निभोग्रनेत्रः
कनकमयोज्ज्वलदीपिकापुरोगः ।
त्वरितमभिपतत्यसौ सरोषो
युगपरिणामसमुद्यतो यथार्कः ॥ २ ॥
१८