2026-01-29 16:27:22 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>-ii. 26.]
द्वितीयोऽङ्कः ।
</ignore>
<verse>प्रगृहीतमहाचापो वृतो वानर सेनया ।
समुद्धर्तुं दशमीग्रीवं लङ्कामेवाभियास्यति ॥ २३ ॥
</verse>
<ignore>३३७
</ignore>

<speaker>सीता -</speaker> किण्णुखु सिविणो मए दिट्ठो । भद्द ! अवि सच्चं ।
ण
आणामि । <chaya>[ किन्नुखलु स्वप्नो मया दृष्टः । भद्र ! अपि सत्यम् ।
३
न जानामि । ]
</chaya>

<speaker>हनूमान्-</speaker><stage>( स्वगतम् )</stage> भोः ! कष्टम् ।

<verse>एवं गाढं परिज्ञाय भर्तारं भर्तृवत्सला ।
न प्रत्यायति शोकार्ता यथा देहान्तरं गता ॥ २४ ॥
</verse>

<stage>( प्रकाशम्)</stage> भवति ! अयमिदानीं,

<verse>समुदितवरचापबाणपाणिं पतिमिह राजसुते ! तवानयामि ।
भव हि विगतसंशया मयि त्वं नरवरपार्श्वगता विनीतशोका ॥२५॥
</verse>

<speaker>सीता -</speaker> भद्द ! एदं मे अवत्थं सुणिअ अय्यउत्तो जह सोअपरवसो
ण होइ, तह मे उत्तन्तं भणेहि । <chaya>[ भद्र ! एतां मेऽवस्थां श्रुत्वार्यपुत्रो
३
यथा शोकपरवशो न भवति, तथा मे वृत्तान्तं भण । ]
</chaya>

<speaker>हनूमान् -</speaker> यदाज्ञापयति भवती ।

<speaker>सीता-</speaker>गच्छ, कय्यसिद्धी होदु । <chaya>[ गच्छ कार्यसिद्धिर्भवतु । ]
६</chaya>

<speaker>हनूमान् -</speaker> अनुगृहीतोऽस्मि । <stage>( परिक्रम्य )</stage> कथमिदानीं ममागमनं
रावणाय निवेदयामि । भवतु, दृष्टम् ।

<verse>परभृतगणजुष्टं पद्मषण्डाभिरामं
सुरुचिरतरुषण्डं तोयदाभं त्रिकूटम् ।
करचरणविमर्दैः काननं चूर्णयित्वा
विगत विषयदर्पं राक्षसेशं करोमि ॥ २६ ॥
</verse>

<stage>( निष्क्रान्तौ )
</stage>

<trailer>द्वितीयोऽङ्कः ।
</trailer>
<ignore>१७
</ignore>
</page>
<ignore>-ii. 26.]
द्वितीयोऽङ्कः ।
<verse>प्रगृहीतमहाचापो वृतो वानर
समुद्धर्तुं दश
<ignore>३३७

<speaker>सीता -</speaker> किण्णुखु सिविणो मए दिट्ठो । भद्द ! अवि सच्चं ।
आणामि । <chaya>[ किन्नुखलु स्वप्नो मया दृष्टः । भद्र ! अपि सत्यम् ।
३
न जानामि । ]

<speaker>हनूमान्-</speaker><stage>( स्वगतम् )</stage> भोः ! कष्टम् ।
<verse>एवं गाढं परिज्ञाय भर्तारं भर्तृवत्सला ।
न प्रत्यायति शोकार्ता यथा देहान्तरं गता ॥ २४ ॥

<stage>( प्रकाशम्)</stage> भवति ! अयमिदानीं,
<verse>समुदितवरचापबाणपाणिं पतिमिह राजसुते ! तवानयामि ।
भव हि विगतसंशया मयि त्वं नरवरपार्श्वगता विनीतशोका ॥२५॥

<speaker>सीता -</speaker> भद्द ! एदं मे अवत्थं सुणिअ अय्यउत्तो जह सोअपरवसो
ण होइ, तह मे उत्तन्तं भणेहि । <chaya>[ भद्र ! एतां मेऽवस्थां श्रुत्वार्यपुत्रो
३
यथा शोकपरवशो न भवति, तथा मे वृत्तान्तं भण । ]

<speaker>हनूमान् -</speaker> यदाज्ञापयति भवती ।

<speaker>सीता-</speaker>गच्छ, कय्यसिद्धी होदु । <chaya>[ गच्छ कार्यसिद्धिर्भवतु । ]
६

विगत

<stage>( निष्क्रान्तौ )
<trailer>द्वितीयोऽङ्कः ।
<ignore>१७
</page>