This page has not been fully proofread.

-ii. 26.]
 
द्वितीयोऽङ्कः ।
 
प्रगृहीतमहाचापो वृतो वानर सेनया ।
 
समुद्ध दशमीवं लङ्कामेवाभियास्यति ॥ २३ ॥
 
३३७
 
सीता - किण्णुखु सिविणो मए दिट्ठो । भद्द ! अवि सच्चं ।
आणामि । [ किन्नुखलु स्वप्नो मया दृष्टः । भद्र ! अपि सत्यम् ।
३ न जानामि । ]
 
हनूमान्-( स्वगतम् ) भोः ! कष्टम् ।
 
एवं गाढं परिज्ञाय भर्तारं भर्तृवत्सला ।
 
न प्रत्यायति शोकार्ता यथा देहान्तरं गता ॥ २४ ॥
( प्रकाशम्) भवति ! अयमिदानीं,
 
समुदितवरचापबाणपाणिं पतिमिह राजसुते ! तवानयामि ।
भव हि विगतसंशया मयि त्वं नरवरपार्श्वगता विनीतशोका ॥२५॥
सीता - भद्द ! एदं मे अवत्थं सुणिअ अय्यउत्तो जह सोअपरवसो
होइ, तह मे उत्तन्तं भणेहि । [ भद्र ! एतां मेऽवस्थां श्रुत्वार्यपुत्रो
३ यथा शोकपरवशो न भवति, तथा मे वृत्तान्तं भण । ]
हनूमान् - यदाज्ञापयति भवती ।
 
सीता-गच्छ, कय्यसिद्धी होदु । [ गच्छ कार्यसिद्धिर्भवतु । ]
६ हनूमान् - अनुगृहीतोऽस्मि । ( परिक्रम्य ) कथमिदानीं ममागमनं
रावणाय निवेदयामि । भवतु, दृष्टम् ।
 
परभृतगणजुष्टं पद्मषण्डाभिरामं
 
सुरुचिरतरुषण्डं तोयदाभं त्रिकूटम् ।
करचरणविमदैः काननं चूर्णयित्वा
 
विगत विषयदर्पं राक्षसेशं करोमि ॥ २६ ॥
( निष्क्रान्तौ )
द्वितीयोऽङ्कः ।
 
१७