This page has been fully proofread once and needs a second look.

<page>
<ignore>
३३६

अभिषेकनाटके

</ignore>
<verse>
अनशनपरितप्तं पाण्डु स क्षामवक्त्रं

तव वरगुणचिन्तावीत लावण्यलीलम् ।

वहति विगतधैर्यं हीयमानं शरीरं

मनसिजशरदग्धं बाष्पपर्याकुलाक्षम् ॥ २१ ॥

</verse>
<ignore>
[ ii. 21. -

</ignore>

<speaker>
सीता - </speaker> <stage>(आत्मगतम्)</stage> हद्धि वीळिआ खु म्हि मन्दभाआ एवं

सोअन्तं अय्यउत्तं सुणिअ । अय्यउत्तस्स विरहपरिस्समो वि मे

सफळो संवुत्तो त्ति पेक्खामि, जदि खु अअं वाणरो सच्चं मन्तेदि ।

अय्यउत्तस्स इमस्सिं जणे अणुक्कोसं परिस्समं च सुणिअ सुहस्स

दुक्खस्स अ अन्तरे डोळाअदि विअ मे हिअअं <stage>(प्रकाशम)</stage> भद्द !

कहं तुम्हेहि अय्यउत्तस्स सङ्गमो जादो । <chaya>[ हा धिग् व्रीडिता

खल्वस्मि मन्दभागा एवं शोचन्तमार्यपुत्रं श्रुत्वा । आर्यपुत्रस्य विरह-

परिश्रमोऽपि मे सफलः संवृत्त इति पश्यामि, यदि खल्वयं वानरः

सत्यं मन्त्रयते । आर्यपुत्रस्यास्मिन् जनेऽनुक्रोशं परिश्रमं च श्रुत्वा

सुखस्य दुःखस्य चान्तरे दोलायत इव मे हृदयम् । भद्र ! कथं युष्मा-

भिरार्यपुत्रस्य संगमो जातः । ]

१२
</chaya>

<speaker>
हनूमान्-</speaker> भवति ! श्रूयतां ।

<verse>
हत्वा वालिनमाहवे कपिवरं त्वत्कारणादप्ग्रजं

सुग्रीवस्य कृतं नरेन्द्रतनये ! राज्यं हरीणां ततः ।

राज्ञा त्वद्विचयाय चापि हरयः सर्वा दिशः प्रेषिता -

स्तेषामस्म्यहमद्य गृध्रवचनात् त्वां देवि ! सम्प्राप्तवान् ॥ २२ ॥

</verse>

अपि च, ईदृशमिव ।

<speaker>
सीता -</speaker> अहो अअरुणा क्खु इस्सरा एव्वं सोअन्तं अय्यन्तं कर

अन्तो । <chaya>[ अहो अकरुणाः खल्वीश्वरा एवं शोचन्तमार्यपुत्रं कुर्वन्तः । ]
</chaya>

<speaker>
हनूमान् -</speaker> भवति ! मा विषादेन । रामो हि,

<ignore>
१६

</ignore>
</page>