This page has not been fully proofread.

३३६
 
अभिषेकनाटके
 
अनशनपरितप्तं पाण्डु स क्षामवक्त्रं
 
तव वरगुणचिन्तावीत लावण्यलीलम् ।
वहति विगतधैर्यं हीयमानं शरीरं
 
मनसिजशरदग्धं बाष्पपर्याकुलाक्षम् ॥ २१ ॥
 
[ ii. 21. -
 
सीता - (आत्मगतम्) •हद्धि वीळिआ खु म्हि मन्दभाआ एवं
सोअन्तं अय्यउत्तं सुणिअ । अय्यउत्तस्स विरहपरिस्समो वि मे
३ सफळो संवुत्तो त्ति पेक्खामि, जदि खु अअं वाणरो सचं मन्तेदि ।
अय्यउत्तस्स इमस्सिं जणे अणुक्कोसं परिस्समं च सुणिअ सुहस्स
दुक्खस्स अ अन्तरे डोळाअदि विअ मे हिअअं (प्रकाशम) भद्द !
६ कहं तुम्हेहि अय्यउत्तस्स सङ्गमो जादो । [ हा धिग् व्रीडिता
खल्वस्मि मन्दभागा एवं शोचन्तमार्यपुत्रं श्रुत्वा । आर्यपुत्रस्य विरह-
परिश्रमोऽपि मे सफलः संवृत्त इति पश्यामि, यदि खल्वयं वानरः
९ सत्यं मन्त्रयते । आर्यपुत्रस्यास्मिन् जनेऽनुक्रोशं परिश्रमं च श्रुत्वा
सुखस्य दुःखस्य चान्तरे दोलायत इव मे हृदयम् । भद्र ! कथं युष्मा-
भिरार्यपुत्रस्य संगमो जातः । ]
 
१२ हनूमान् भवति ! श्रूयतां ।
 
हत्वा वालिनमाहवे कपिवरं त्वत्कारणादप्रजं
 
सुग्रीवस्य कृतं नरेन्द्रतनये ! राज्यं हरीणां ततः ।
राज्ञा त्वद्विचयाय चापि हरयः सर्वा दिशः प्रेषिता -
स्तेषामस्म्यहमद्य गृध्रवचनात् त्वां देवि ! सम्प्राप्तवान् ॥ २२ ॥
 
अपि च, ईदृशमिव ।
 
सीता - अहो अअरुणा क्खु इस्सरा एव्वं सोअन्तं अय्यन्तं कर
३ अन्तो । [ अहो अकरुणाः खल्वीश्वरा एवं शोचन्तमार्यपुत्रं कुर्वन्तः । ]
हनूमान् - भवति ! मा विषादेन । रामो हि,
 
१६