This page has been fully proofread once and needs a second look.

<page>
<ignore>
-ii. 20.5]

द्वितीयोऽङ्कः ।

</ignore>
<verse>
देवाः सेन्द्रादयो भग्ना दानवाश्च मया रणे ।

सोऽहं मोहं गतोऽस्म्यद्य सीतायास्त्रिभिरक्षरैः ॥ १८ ॥
</verse>

<stage>
( नेपथ्ये )

</stage>

<ignore>
३३५

</ignore>

जयतु देवः । जयतु लङ्केश्वरः । जयतु स्वामी । जयतु महाराजः ।

दश नाडिकाः पूर्णाः । अतिक्रामति स्नानवेला । इत इतो महाराजः ।

<stage>
( निष्क्रान्तः सपरिवारो रावणः । )

</stage>

<speaker>
हनूमान् -</speaker> हन्त निर्गतो रावणः, सुप्ताश्च राक्षसस्त्रियः ।

अयं कालो देवीमुपसर्पितुम् । <stage>( कोटरादवरुह्य )</stage> जयत्वविधवा ।

<verse>
प्रेषितोऽहं नरेन्द्रेण रामेण विदितात्मना ।

त्वद्गतस्नेह सन्तापविक्लवीकृतचेतसा ॥ १९ ॥

</verse>

<speaker>
सीता - </speaker> <stage>(आत्मगतम्)</stage> कोणुखु अअं, पापरक्खसो अय्यउत्तरओ

त्ति अत्ताणं ववदिसिअ वाणररूवेण मं वञ्चिदुकामो भवे । भोदु,

तुहिह्णिआ भविस्सं । <chaya>[ कोनुखल्वयं, पापराक्षस आर्यपुत्रसंबन्धीत्या-

त्मानं व्यपदिश्य वानररूपेण मां वञ्चयितुकामो भवेत् । भवतु,

तूष्णीका भविष्यामि । ]

६ •
</chaya>

<speaker>
हनूमान् -</speaker> कथं न प्रत्येति भवती । अलमन्यशङ्कया । श्रोतुमर्हति

भवती ।

<verse>
इक्ष्वाकु कुलदीपेन सन्धाय हरिणा त्वहम् ।

प्रेषितस्त्वद्विचित्यर्थं हनूमान् नाम वानरः ॥ २० ॥

</verse>

<speaker>
सीता - </speaker> <stage>(आत्मगतम्)</stage> जो वा को वा भोदु । अय्यउत्तणामसि
सङ्कि
त्
तणेण अहं एदेण अभिभासिस्सं । <stage>( प्रकाशम्)</stage> भद्द ! को वुत्तन्तो

अय्यउत्तस्स । <chaya>[ यो वा को वा भवतु । आर्यपुत्रनामसंकीर्तनेनाह-

मेतेनाभिभाषिष्ये । भद्र ! को वृत्तान्त आर्यपुत्रस्य । ]

</chaya>

<speaker>
हनूमान् -</speaker> भवति ! श्रूयताम्,

<ignore>
१५

</ignore>
</page>