This page has been fully proofread once and needs a second look.

<page>
<ignore>
३३४

अभिषेक नाटके

</ignore>
<ignore>
[ ii. 14. -

</ignore>
<verse>
सीते! त्यज त्वं व्रतमुप्ग्रचर्यं

भजस्व मां भामिनि ! सर्वगात्रैः ।

अपास्य तं मानुषमद्य भद्रे !

गतायुषं कामपथान्निवृत्तम् ॥ १४ ॥

</verse>

<speaker>
सीता-</speaker>हस्सो खु रावणओ, जो वअणगदसिद्धिं वि ण जाणादि ।

<chaya>
[ हास्यः खलु रावणकः, यो वचनगतसिद्धिमपि न जानाति । ]
</chaya>

<speaker>
हनूमान् - </speaker> <stage>( सक्रोधम् )</stage> अहो रावणस्यावलेपः ।

<verse>
तौ च बाहू न<fix> </fix>विज्ञाय तच्चापि सुमहद् धनुः ।

सायकं चापि रामस्य गतायुरिति भाषते ॥ १५ ॥

</verse>

न शक्नोमि रोषं धारयितुम् । भवतु, अहमेवार्यरामस्य कार्यं

साधयामि । अथवा,

<verse>
यद्यहं रावणं हन्मि कार्यसिद्धिर्भविष्यति ।

यदि मां प्रहरेद् रक्षो महत् कार्यं विपद्यते ॥ १६॥

</verse>
<verse><speaker>
रावणः-

</speaker>
वरतनु ! तनुगात्रि ! कान्तनेत्रे ।

कुवलयदामनिभां विमुच्य वेणीम् ।

बहुविधमणिरत्नभूषिताङ्गं

दशशिरसं मनसा भजस्व देवि ! ॥ १७ ॥

</verse>

<speaker>
सीता -</speaker> हं विपरीओ खु धम्मो, जं जीवदि खु अअं पापरक्खसो ।

<chaya>
[ हैं, विपरीतः खलु धर्मः, यद् जीवति खल्वयं पापराक्षसः । ]

</chaya>

<speaker>
रावणः -</speaker> ननु देवि ।

<speaker>
सीता -</speaker> सत्तो सि । <chaya>[ शप्तोऽसि । ]

</chaya>

<speaker>
रावणः -</speaker> हहह, अहो पतिव्रतायास्तेजः ।

<ignore>
१४

</ignore>
</page>