This page has not been fully proofread.

३३४
 
अभिषेक नाटके
 
[ ii. 14. -
 
सीते! त्यज त्वं व्रतमुप्रचर्यं
 
भजस्व मां भामिनि ! सर्वगात्रैः ।
 
अपास्य तं मानुषमद्य भद्रे !
 
गतायुषं कामपथान्निवृत्तम् ॥ १४ ॥
 
सीता-हस्सो खु रावणओ, जो वअणगदसिद्धिं विण जाणादि ।
[ हास्यः खलु रावणकः, यो वचनगतसिद्धिमपि न जानाति । ]
३ हनूमान् - ( सक्रोधम् ) अहो रावणस्यावलेपः ।
 
तौ च बाहू नविज्ञाय तच्चापि सुमहद् धनुः ।
सायकं चापि रामस्य गतायुरिति भाषते ॥ १५ ॥
 
न शक्नोमि रोषं धारयितुम् । भवतु, अहमेवार्यरामस्य कार्यं
साधयामि । अथवा,
 
यद्यहं रावणं हन्मि कार्यसिद्धिर्भविष्यति ।
 
यदि मां प्रहरेद् रक्षो महत् कार्यं विपद्यते ॥ १६॥
 
रावणः-
 
वरतनु ! तनुगात्रि ! कान्तनेत्रे ।
 
कुवलयदामनिभां विमुच्य वेणीम् ।
 
बहुविधमणिरत्नभूषिताङ्गं
 
दशशिरसं मनसा भजस्व देवि ! ॥ १७ ॥
 
सीता - हं विपरीओ खु धम्मो, जं जीवदि खु अअं पापरक्खसो ।
[ हैं, विपरीतः खलु धर्मः, यद् जीवति खल्वयं पापराक्षसः । ]
 
३ रावणः - ननु देवि ।
 
सीता - सत्तो सि । [ शप्तोऽसि । ]
 
रावणः - हहह, अहो पतिव्रतायास्तेजः ।
 
१४