2025-12-29 10:00:35 by ambuda-bot
This page has not been fully proofread.
-ii.13.]
३
द्वितीयोऽङ्कः ।
युवतिजन निकाये भात्यसौ राक्षसेशो
हरिवि हरिणीनामन्तरे चेष्टमानः ॥ ९ ॥
३३३
किमिदानीं करिष्ये । भवतु, दृष्टम् । एनमशोकपादपमारुह्य कोट-
रान्तरितो भूत्वा दृढं वृत्तान्तं ज्ञास्यामि । ( तथा करोति । )
रावण:-
(ततः प्रविशति रावणः सपरिवारः । )
दिव्यास्त्रैः सुरदैत्यदानवचमूविद्रावणं रावणं
युद्धे क्रुद्धसुरेभदन्तकुलिशव्यालीढवक्षस्स्थलम् ।
सीता मामविवेकिनी न रमते सक्ता च मुग्धेक्षणा
क्षुद्रे क्षत्रियताप से ध्रुवमहो देवस्य विनक्रिया ॥ १० ॥
( ऊर्ध्वमवलोक्य) एष एष चन्द्रमाः,
रजतरचितदर्पणप्रकाशः
करनिकरैर्हृदयं ममाभिपीडय ।
उदयति गगने विजृम्भमाणः
कुमुदवनप्रियबान्धवः शशाङ्कः ॥ ११ ॥
( परिक्रम्य ) एषा सीता पादपमूलमाश्रित्य ध्यानसंवतिहृदयानशन-
क्षामवदना स्वदेहमिव प्रवेष्टुकामा सङगूढस्तनोदरी दुर्दिनान्तर्गता
३ चन्द्रलेखेव राक्षसीगणपरिवृतोपविष्टा । यैषा,
अपास्य भोगान् मां चैव श्रियं च महतीमिमाम् ।
मानुषे न्यस्तहृदया नैव वश्यत्वमागता ॥ १२ ।
हनूमान् - हन्त सुविज्ञातम् ।
इयं सा राजतनया पत्नी रामस्य मैथिली ।
सिंहदर्शनवित्रस्ता मृगीव परितप्यते ॥ १३ ॥
: - ( उपेत्य )
रावणः-
१३