2026-01-29 15:41:13 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>३३२
अभिषेकनाटके
</ignore>
<ignore>[ ii. 4.''-
</ignore>

अहो व्यर्थो मे परिश्रमः । भवतु, एतद्धर्म्याप्ग्रमारुह्यावलोकयामि ।
<stage>( तथा कृत्वा )</stage> अये अयं प्रमदवनराशिः । इमं प्रविश्य परीक्षिष्ये ।
३
<stage>( प्रविश्यावलोक्य)</stage> अहो प्रमदवनसमृद्धिः । इह हि,
अपि च,

<verse>कनकरचितविद्रुमेन्द्रनीलै-
र्विकृतमहाद्रुमपङ्क्तिचित्रदेशा ।
रुचिरतरनगा विभाति शुभ्रा
नभसि सुरेन्द्रविहारभूमिकल्पा ॥ ५ ॥
</verse>

अपि च,

<verse>चित्रप्रस्तुतहेमधातुरुचिराः शैलाश्वदृष्टा मया
नानावारिचराण्डजैर्विरचिता दृष्टा मया दीर्घिकाः ।
नित्यं पुष्पफलाढढ्यपादपयुता देशाश्च दृष्टा मया
सर्वं दृष्टमिदं हि रावणगृहे सीता न दृष्टा मया ॥ ६ ॥
</verse>

कोनुखल्वेतस्मिन् प्रदेशे सप्रभ इव दृश्यते । तत्र तावदवलोकयामि ।
<stage>( तथा कृत्वा )</stage> अये कानुखल्वियम् ।
येषा,

<verse>राक्षसीभिः परिवृता विकृताभिः सुमध्यमा ।
नीलजीमूतमध्यस्था विद्युल्लेखेव शोभते ॥ ७ ॥
</verse>

यैषा,

<verse>असितभुजगकल्पां धारयन्त्येकवेणीं
करपरिमितमध्या कान्तसंसक्तचित्ता ।
अनशनकृशदेहा बाष्पससंसिक्तवस्त्रा
सरसिजवनमालेवातपे विप्रविद्धा ॥ ८ ॥
</verse>

अये कथं दीपिकावलोकः । <stage>( विलोक्य)</stage> अये रावणः ।

मणिविरचितमौलिश्चारुताम्रायताक्षो
मदसललितगामी मत्तमातङ्गलीलः ।

<ignore>१२
</ignore>
</page>
<ignore>३३२
अभिषेकनाटके
<ignore>[ ii. 4.

अहो व्यर्थो मे परिश्रमः । भवतु, एतद्धर्म्या
<stage>( तथा कृत्वा )</stage> अये अयं प्रमदवनराशिः । इमं प्रविश्य परीक्षिष्ये ।
३
<stage>( प्रविश्यावलोक्य)</stage> अहो प्रमदवनसमृद्धिः । इह हि,
अपि च,
<verse>कनकरचितविद्रुमेन्द्रनीलै-
र्विकृतमहाद्रुमपङ्क्तिचित्रदेशा ।
रुचिरतरनगा विभाति शुभ्रा
नभसि सुरेन्द्रविहारभूमिकल्पा ॥ ५ ॥

अपि च,

<verse>चित्रप्रस्तुतहेमधातुरुचिराः शैलाश्वदृष्टा मया
नानावारिचराण्डजैर्विरचिता दृष्टा मया दीर्घिकाः ।
नित्यं पुष्पफला
सर्वं दृष्टमिदं हि रावणगृहे सीता न दृष्टा मया ॥ ६ ॥

कोनुखल्वेतस्मिन् प्रदेशे सप्रभ इव दृश्यते । तत्र तावदवलोकयामि ।
<stage>( तथा कृत्वा )</stage> अये कानुखल्वियम् ।
येषा,
<verse>राक्षसीभिः परिवृता विकृताभिः सुमध्यमा ।
नीलजीमूतमध्यस्था विद्युल्लेखेव शोभते ॥ ७ ॥

यैषा,

<verse>असितभुजगकल्पां धारयन्त्येकवेणीं
करपरिमितमध्या कान्तसंसक्तचित्ता ।
अनशनकृशदेहा बाष्प
सरसिजवनमालेवातपे विप्रविद्धा ॥ ८ ॥

अये कथं दीपिकावलोकः । <stage>( विलोक्य)</stage> अये रावणः ।

मणिविरचितमौलिश्चारुताम्रायताक्षो
मदसललितगामी मत्तमातङ्गलीलः ।
<ignore>१२
</page>