2025-12-29 10:00:34 by ambuda-bot
This page has not been fully proofread.
३३२
अभिषेकनाटके
[ ii. 4.'-
अहो व्यर्थो मे परिश्रमः । भवतु, एतद्धर्म्याप्रमारुह्यावलोकयामि ।
( तथा कृत्वा ) अये अयं प्रमदवनराशिः । इमं प्रविश्य परीक्षिष्ये ।
३ ( प्रविश्यावलोक्य) अहो प्रमदवनसमृद्धिः । इह हि,
अपि च,
कनकरचितविद्रुमेन्द्रनीलै-
विकृतमहाद्रुमपङ्क्तिचित्रदेशा ।
रुचिरतरनगा विभाति शुभ्रा
नभसि सुरेन्द्रविहारभूमिकल्पा ॥ ५ ॥
चित्रप्रस्तुतहेमधातुरुचिराः शैलाश्वदृष्टा मया
नानावारिचराण्डजैर्विरचिता दृष्टा मया दीर्घिकाः ।
नित्यं पुष्पफलाढयपादपयुता देशाश्च दृष्टा मया
सर्वं दृष्टमिदं हि रावणगृहे सीता न दृष्टा मया ॥ ६ ॥
कोनुखल्वेतस्मिन् प्रदेशे सप्रभ इव दृश्यते । तत्र तावदवलोकयामि ।
( तथा कृत्वा ) अये कानुखल्वियम् ।
येषा,
राक्षसीभिः परिवृता विकृताभिः सुमध्यमा ।
नीलजीमूतमध्यस्था विद्युल्लेखेव शोभते ॥ ७ ॥
असितभुजगकल्पां धारयन्त्येकवेणीं
करपरिमितमध्या कान्तसंसक्तचित्ता ।
अनशनकृशदेहा बाष्पससिक्तवस्त्रा
सरसिजवनमालेवातपे विप्रविद्धा ॥ ८ ॥
अये कथं दीपिकावलोकः । ( विलोक्य) अये रावणः ।
मणिविरचितमौलिश्चारुताम्रायताक्षो
मदसललितगामी मत्तमातङ्गलीलः ।
१२