This page has not been fully proofread.

-iww. 4 ]
 
द्वितीयोऽङ्कः ।
 
३३१
 
अय्यउत्तसाअअप्पञ्चएण कहं वि अन्त्ताणं पय्यवत्थावेमि । किंणुखु
९ अज्ज पज्जाळिअमाणे कम्मआरग्गिमण्डळे उदअपसेओ विअ
किन हिअअप्पसादो समुप्पण्णो । किंणुखु मं अन्तरेण पसण्ण-
हिअओ अय्यउत्तो भवे । [ हा धिग् अतिधीरा खल्वस्मि मन्दभागा ।
१२ यार्यपुत्रविरहिता राक्षसराजभवनमानीतानिष्टान्यनर्हाणि यथामनोरथ-
प्रवृत्तानि वचनानि श्राव्यमाणा जीवामि मन्दभागा । अथवा आर्य-
पुत्रसायकप्रत्ययेन कथमप्यात्मानं पर्यवस्थापयामि । किन्नुखल्वद्य
१५ प्रज्वाल्यमाने कर्मकाराग्निमण्डले उदकप्रसेक इव किञ्चिद् हृदयप्रसादः
समुत्पन्नः। किन्नुखलु मामन्तरेण प्रसन्नहृदय आर्यपुत्रो भवेत् । ]
(ततः प्रविशति हनूमान् अङ्गुलीयकहस्तः । )
 
१८ हनुमान् - ( लङ्कां प्रविश्य) अहो रावणभवनस्य विन्यासः ।
कनकरचितचित्रतोरणाढया
मणिवरविद्रुमशोभितप्रदेशा ।
 
विमलविकृत सचितैौर्वमानै-
 
अहोतुखलु,
 
वियति महेन्द्रपुरीव भाति लङ्का ॥ २ ॥
 
एतां प्राप्य दशग्रीवो राजलक्ष्मीमनुत्तमाम् ।
विमार्गप्रतिपन्नत्वाद् व्यापादयितुमुद्यतः ॥ ३ ॥
 
( सर्वतो गत्वा ) विचरितप्राया मया लङ्का ।
 
गर्भागारविनिष्कुटेषु बहुशः शालाविमानादिषु
स्नानागार निशाचरेन्द्रभवनप्रासादहम्र्येषु च ।
 
पानागार निशान्त देश विवरेष्वाक्रान्तवानस्म्यहं
 
सर्वं भोः ! विचितं न चैव नृपतेः पत्नी मया दृश्यते ॥ ४ ॥
 
११