This page has been fully proofread once and needs a second look.

<page>
<ignore>
३३०

अभिषेक नाटके

</ignore>
<ignore>
[ ii. h

</ignore>

<chaya>
कुमारस्याङ्गदस्य प्रवृत्तिं ज्ञात्वा शीघ्रमागच्छेति । तत् क्वनुखलु गतः
१५

कुमारः । एष आर्यककुभः । यावदेनं पृच्छामि । सुखमार्यस्य । ]
</chaya>

<speaker>
ककुभः-</speaker>अये बिलमुखः । कुतो भवान् ।

<speaker>
बिलमुखः -</speaker> अय्य! महाळाअस्स सासणेण कुमारं अङ्गदं पेक्खिदुं
१८

आउदो म्हि । <chaya>[ आर्य ! महाराजस्य शासनेन कुमारमङ्गदं प्रेक्षित-

मागतोऽस्मि । ]

</chaya>

<speaker>
ककुभः–</speaker>अपि कुशली आर्यरामो महाराजश्च ।

२१

<speaker>
बिलमुखः -</speaker> आम् ।

<speaker>
ककुभः - </speaker>कोऽभिप्रायो महाराजस्य ।

<stage>
( बिलमुखः पेसिओ म्हि इति पूर्ववत् पठति )

२४
</stage>

<speaker>
ककुभः -</speaker> किं न जानीषे निष्ठितमर्धं कार्यस्य ।

<speaker>
बिलमुखः-</speaker>किं किम् ।

<speaker>
ककुभः -</speaker> श्रूयतां,

<verse>
लब्ध्वा वृत्तान्तं रामपत्न्याः खगेन्द्राद्

आरुह्यागेन्द्रं सद्विपेन्द्रं महेन्द्रम् ।

लङ्कामभ्येतुं वायुपुत्रेण शीघ्रं

वीर्यप्राबल्याल्लङ्घितः सागरोऽद्य ॥ १ ॥

</verse>

तस्मादागच्छ, कुमारपादमूलमेव संश्रयावः ।

<stage>
(निष्क्रान्तौ । )

</stage>

<trailer>
विष्कम्भकः ।

</trailer>

<stage>
( त</stage><stage><error></error></stage><stage><fix>तः</fix></stage><stage> प्रविशति राक्षसीगणपरिवृता सीता । )
</stage>

<speaker>
सीता-</speaker>हद्धि अदिधीराःरा खु म्हि मन्दभाआ । जा अय्यउत्तविरहिदा

रक्खसराअभवणं आणीदा अणिट्ठाणि अणरिहाणि जहमणोरहप्प-
वृ

वु
त्ताणि वअणाणि साविअमांमाणा जीवामि मन्दभाआ । आदु

१०

</page>