This page has not been fully proofread.

ii. 13 ]
 
द्वितीयोऽङ्कः ।
 
३२९
 
हंसप्रयुक्तो वीरवाही विमानः कालेन प्रेषितो मां नेतुमागतः ।
१२ भवतु । अयमयमागच्छामि । ( स्वर्यातः । )
 
सवें - हा हा महाराज !
 
रामः - हन्त स्वर्गं गतो वाली । सुग्रीव ! क्रियतामस्य संस्कारः ।
१५ सुग्रीवः - यदाज्ञापयति देवः ।
 
१८
 
रामः - लक्ष्मण ! सुग्रीवस्याभिषेकः कल्प्यताम् ।
 
लक्ष्मणः–यदाज्ञापयत्यार्यः ।
 
( निष्क्रान्ताः सर्वे । )
प्रथमोऽङ्कः ।
 
अथ द्वितीयोऽङ्कः ।
 
( ततः प्रविशति ककुभः । )
 
३ ककुभः- निष्ठितप्रायत्वात् कार्यस्याहारत्र्यावृताः सर्वे वानरयूथपाः ।
तस्मादहमपि किञ्चिदाहारजातं सम्भावयामि । ( तथा करोति )
( प्रविश्य )
 
६ बिलमुखः - पेसिओ म्हि महाळाएण सुग्गीवेण - अय्यरामस्स किदो-
वआरप्पच्चुवआरणिमित्तं सव्वासु दिसासु सीदाविअअणे पेसिआ
सव्वे वाणरा आअदा । तेसं दक्खिणापहमुहस्स कुमारस्स अङ्ग-
९ दस्स पवृत्तिं जाणिअ सिग्घं आअच्छत्ति । ता कहिगुहु गओ
कुमारो । (परिक्रम्याग्रतो विलोक्य) एसो अय्यकउहो । जाव णं
पुच्छामि । ( उपसृत्य ) सुहं अय्यस्स । [ प्रेषितोऽस्मि महाराजेन
१२ सुग्रीवेण -आर्थरामस्य कृतोपकारप्रत्युपकारनिमित्तं सर्वासु दिशासु
सीताविचयने प्रेषिताः सर्वे वानरा आगताः । तेषां दक्षिणापथमुखस्य
 
अ. १८