2026-01-29 07:21:07 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>३२८
अभिषेक नाटके
</ignore>
<ignore>[i. 23.-
</ignore>

<speaker>हनूमान् -</speaker> एष महाराजः,

<verse>शर निर्भिन्नहृदयो विभाति धरणीतले ।
गुहशक्तिसमाक्रान्तो यथा क्रौञ्चाचलोत्तमः ॥ २४ ॥
</verse>

<speaker>अङ्गदः - </speaker> <stage>( उपसृत्य )</stage> हा महाराज !

<verse>अतिबलमुखशायी पूर्वमासीर्हरीन्द्रः
क्षितितलपरिवर्ती क्षीणसर्वाङ्गचेष्टः ।
शरवरपरिवीतं व्यक्तमुत्सृज्य देहं
किमभिलषसि वीर स्वर्गमद्या<ref>१</ref>भिगन्तुम् ॥ २५ ॥
</verse>

<stage>( इति भूमौ पतितः । )
</stage>

<speaker>वाली -</speaker> अङ्गद ! अलमलं विषादेन । भोः सुग्रीव !

<verse>मया कृतं दोषमपास्य बुद्धधा
ध्या
त्वया हरीणामधिपेन सम्यक् ।
विमुच्य रोषं परिगृह्य धर्मं
कुलप्रवालं परिगृह्यतां नः ॥ २६ ॥
</verse>

<speaker>सुग्रीवः -</speaker> यदाज्ञापयति महाराजः ।

<speaker>वाली -</speaker> भो राघव ! यस्मिन् कस्मिन् वापराधेऽनयोर्वानरचापलं
३
क्षन्तुमर्हसि ।

<speaker>रामः -</speaker> बाढम् ।

<speaker>वाली -</speaker> सुग्रीव ! प्रतिगृह्यतामस्मत्कुलधनं हेममाला ।
६

<speaker>सुग्रीवः -</speaker> अनुगृहीतोऽस्मि । <stage>( प्रतिगृह्णाति । )
</stage>

<speaker>वाली -</speaker> हनूमन् ! आपस्तावत् ।

<speaker>हनूमान् -</speaker> यदाज्ञापयति महाराजः । <stage>(निष्क्रम्य प्रविश्य )</stage> इमा आपः ।
९

<speaker>वाली - </speaker> <stage>( आचम्य )</stage> परित्यजन्तीव मां प्राणाः । इमा गङ्गाप्रभृतयो
महानद्य एता उर्वश्यादयोऽप्सरसो मामभिगताः । एष सहस्र -

<footnote>१ मद्यापि गन्तुम् ।
८
</footnote>
</page>
<ignore>३२८
अभिषेक नाटके
<ignore>[i. 23.-

<speaker>हनूमान् -</speaker> एष महाराजः,
<verse>शर
गुहशक्तिसमाक्रान्तो यथा क्रौञ्चाचलोत्तमः ॥ २४ ॥

<speaker>अङ्गदः -
<verse>अतिबलमुखशायी पूर्वमासीर्हरीन्द्रः
क्षितितलपरिवर्ती क्षीणसर्वाङ्गचेष्टः ।
शरवरपरिवीतं व्यक्तमुत्सृज्य देहं
किमभिलषसि वीर स्वर्गमद्या<ref>१</ref>भिगन्तुम् ॥ २५ ॥

<stage>( इति भूमौ पतितः । )

<speaker>वाली -</speaker> अङ्गद ! अलमलं विषादेन । भोः सुग्रीव !
<verse>मया कृतं दोषमपास्य बुद्
त्वया हरीणामधिपेन सम्यक् ।
विमुच्य रोषं परिगृह्य धर्मं
कुलप्रवालं परिगृह्यतां नः ॥ २६ ॥

<speaker>सुग्रीवः -</speaker> यदाज्ञापयति महाराजः ।

<speaker>वाली -</speaker> भो राघव ! यस्मिन् कस्मिन् वापराधेऽनयोर्वानरचापलं
३
क्षन्तुमर्हसि ।

<speaker>रामः -</speaker> बाढम् ।

<speaker>वाली -</speaker> सुग्रीव ! प्रतिगृह्यतामस्मत्कुलधनं हेममाला ।
६

<speaker>सुग्रीवः -</speaker> अनुगृहीतोऽस्मि । <stage>( प्रतिगृह्णाति । )

<speaker>वाली -</speaker> हनूमन् ! आपस्तावत् ।

<speaker>हनूमान् -</speaker> यदाज्ञापयति महाराजः । <stage>(निष्क्रम्य प्रविश्य )</stage> इमा आपः ।
९

<speaker>वाली -
महानद्य एता उर्वश्यादयोऽप्सरसो मामभिगताः । एष सहस्र
<footnote>१ मद्यापि गन्तुम् ।
८
</page>