2025-12-29 10:00:34 by ambuda-bot
This page has not been fully proofread.
३२८
अभिषेक नाटके
[i. 23.-
हनूमान् - एष महाराजः,
शर निर्भिन्नहृदयो विभाति धरणीतले ।
गुहशक्तिसमाक्रान्तो यथा क्रौञ्चाचलोत्तमः ॥ २४ ॥
अङ्गदः - ( उपसृत्य ) हा महाराज !
अतिबलमुखशायी पूर्वमासीहरीन्द्रः
क्षितितलपरिवर्ती क्षीणसर्वाङ्गचेष्टः ।
शरवरपरिवीतं व्यक्तमुत्सृज्य देहं
किमभिलषसि वीर स्वर्गमद्याभिगन्तुम् ॥ २५ ॥
( इति भूमौ पतितः । )
वाली - अङ्गद ! अलमलं विषादेन । भोः सुग्रीव !
मया कृतं दोषमपास्य बुद्धधा
त्वया हरीणामधिपेन सम्यक् ।
विमुच्य रोषं परिगृह्य धर्मं
कुलप्रवालं परिगृह्यतां नः ॥ २६ ॥
सुग्रीवः - यदाज्ञापयति महाराजः ।
वाली - भो राघव ! यस्मिन् कस्मिन् वापराधेऽनयोर्वानरचापलं
३ क्षन्तुमर्हसि ।
रामः - बाढम् ।
वाली - सुग्रीव ! प्रतिगृह्यतामस्मत्कुलधनं हेममाला ।
६ सुग्रीवः - अनुगृहीतोऽस्मि । ( प्रतिगृह्णाति । )
वाली - हनूमन् ! आपस्तावत् ।
हनूमान् - यदाज्ञापयति महाराजः । (निष्क्रम्य प्रविश्य ) इमा आपः ।
९ वाली - ( आचम्य ) परित्यजन्तीव मां प्राणाः । इमा गङ्गाप्रभृतयो
महानद्य एता उर्वश्यादयोऽप्सरसो मामभिगताः । एष सहस्र -
१ मद्यापि गन्तुम् ।
८