2026-01-29 07:18:11 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>-i. 23.]
प्रथमोऽङ्कः ।
</ignore>
<verse>सुग्रीवेणाभिमृष्टाभूद् धर्मपत्नी गुरोर्मम ।
३२७
तस्य दाराभिमर्शेन कथं दण्डड्योऽस्मि राघव ! ॥ २१ ॥
</verse>

<speaker>रामः -</speaker> न त्वेव हि कदाचिज्ज्येष्ठस्य यवीयसो दाराभिमर्शनम् ।

<speaker>वाली -</speaker> हन्त अनुत्तरा वयम् । भवता दण्डितत्वाद् विगतपा-
३
पोऽहं ननु ।

<speaker>रामः-
:-</speaker> एवमस्तु

<speaker>सुग्रीवः -</speaker> हा धिक् ।

<verse>करिकरसदृशौ गजेन्द्रगामि-
स्तव रिपुशस्त्रपरिक्षताङ्गदौ च ।
अवनितलगतीतौ समीक्ष्य बाहू
हरिवर ! हा पततीव मेऽद्य चित्तम् ॥ २२ ॥
</verse>

<speaker>वाली -</speaker> मुग्रीव ! अलमलं विषादेन । ईदृशो लोकधर्मः ।
३ हा हा महाराओ ।

<stage>(नेपथ्ये )
</stage>

हा हा महाराओ ।

<speaker>वाली -</speaker> सुग्रीव ! संवार्यतां संवार्यतां स्त्रीजनः । एवं गतं नार्हति
मां द्रष्टुम् ।
६

<speaker>सुग्रीवः -</speaker> यदाज्ञापयति महाराजः । हनूमन् ! एवं क्रियताम् ।

हनूमान् - यदाज्ञापयति कुमारः । <stage>(निष्क्रान्तः । )
</stage>

<stage>(ततः प्रविशत्यङ्गदो हनूमांश्च )
९</stage>

<speaker>हनूमान् -</speaker> अङ्गन्द ! इत इतः ।

<speaker>अङ्गदः-
</speaker>

<verse>श्रुत्वा कालवशं यान्तं हरिमृक्षगणेश्वरम् ।
समापतितसन्तापः प्रयामि शिथिलक्रमः ॥ २३॥
</verse>

हनूमन् ! कुत्र महाराजः ।

</page>
<ignore>-i. 23.]
प्रथमोऽङ्कः ।
<verse>सुग्रीवेणाभिमृष्टाभूद् धर्मपत्नी गुरोर्मम ।
३२७
तस्य दाराभिमर्शेन कथं दण्

<speaker>रामः -</speaker> न त्वेव हि कदाचिज्ज्येष्ठस्य यवीयसो दाराभिमर्शनम् ।

<speaker>वाली -</speaker> हन्त अनुत्तरा वयम् । भवता दण्डितत्वाद् विगतपा-
३
पोऽहं ननु ।

<speaker>रामः-

<speaker>सुग्रीवः -</speaker> हा धिक् ।
<verse>करिकरसदृशौ गजेन्द्रगामि-
स्तव रिपुशस्त्रपरिक्षताङ्गदौ च ।
अवनितलग
हरिवर ! हा पततीव मेऽद्य चित्तम् ॥ २२ ॥

<speaker>वाली -</speaker> मुग्रीव ! अलमलं विषादेन । ईदृशो लोकधर्मः ।
३ हा हा महाराओ ।

<stage>(नेपथ्ये )

हा हा महाराओ ।

<speaker>वाली -</speaker> सुग्रीव ! संवार्यतां संवार्यतां स्त्रीजनः । एवं
मां द्रष्टुम् ।
६

<speaker>सुग्रीवः -</speaker> यदाज्ञापयति महाराजः । हनूमन् ! एवं क्रियताम् ।

हनूमान् - यदाज्ञापयति कुमारः । <stage>(निष्क्रान्तः । )

<stage>(ततः प्रविशत्यङ्गदो हनूमांश्च )
९

<speaker>हनूमान् -</speaker> अङ्ग

<speaker>अङ्गदः-
<verse>श्रुत्वा कालवशं यान्तं हरिमृक्षगणेश्वरम् ।
समापतितसन्तापः प्रयामि शिथिलक्रमः ॥ २३॥

हनूमन् ! कुत्र महाराजः ।
</page>